________________
२ सर्गः]
चन्द्रप्रभचरितम् ।
नाप्यागमेन सर्वज्ञः कृतकेनेतरेण वा । बाध्यते कर्तृहीनस्य तस्यात्यन्तमसंभवात् ॥ १०१ ॥ केर्तुरस्मरणादिभ्यः कर्त्रभावो न सिध्यति । अज्ञात कर्तृकैर्वाक्यैर्व्यभिचारस्य संभवात् ॥ १०२ ॥ न च कश्विद्विशेषोऽस्ति पौरुषेयेष्वसंभवी । अतीन्द्रियार्थसंवादः सर्वज्ञोक्तेऽपि संभवेत् ॥ १०३ ॥ विवादविषयापन्नं ततः शास्त्रं सकर्तृकम् । दृष्टकर्तृकतुल्यत्वादकलङ्कादिशास्त्रवत् ॥ १०४ ॥ तस्मादकर्तृकं शास्त्रं नास्ति सर्वज्ञबाधकम् । कृतकं च द्विधाभिन्नं सैर्वज्ञेत रहेतुकम् ॥ १०५ ॥ असर्वज्ञकृतं तावन्न प्रमाणमतीन्द्रिये ।
सकलज्ञप्रणीतं तु तस्य प्रत्युत साधकम् ॥ १०६॥ प्रस्तुतस्यानुमानस्य साधकत्वेन संभवात् । प्रमाणपञ्चकाभावोऽप्यखिलज्ञं न बाधते ॥ १०७ ॥ तस्मादशेषवित्कश्चिदस्तीत्यागमसंभवात् ।
प्रमाणं बाधकाभावाद्बुद्धिरक्षादिबुद्धिवत् ॥ १०८ ॥ ततो मोक्षोऽपि संसिद्धो लत्रयनिबन्धनः । जीवाजीवाश्रवैर्बन्धनिर्जरासंवरैः समम् ॥ १०९ ॥ वचोभिरिति तत्त्वार्थशंसिभिम्बकैरिव । स शल्यमिव संदेहमाचकर्ष महीपतेः ॥ ११० ॥ यदुक्तं सूरिणा तेन तत्तथेति प्रपद्यः सः । पप्रच्छ पुनरात्मीयान्भवान्मुदितमानसः ॥ १११ ॥ मुनिना वक्तुमारेभे तस्मै भवपरम्परा । चक्रे भव्यसभा चित्तमवधानपरं परा ॥ ११२ ॥
१९.
१. आगमस्य. २. अकर्तृक एवागमः कर्तुरस्मरणात्. ३. सर्वज्ञकर्तृकम सर्वज्ञकर्तृकं चेति. ४. प्रत्यक्षादिनिराकृतिः. ५. प्रत्यक्षादिज्ञानवत्. ६. रत्नत्रयं निबन्धनं कारणं यस्य. ७. चुम्बक पाषाणैरिव.