________________
. काव्यमाला। येऽप्यजीवादयो भावास्तदपेक्षा व्यवस्थिताः । तेऽपि संप्रति संसिद्धास्तन्न तत्त्वमुपप्लुतम् ।। ८९ ॥ जीवाजीवादिषड्वर्ग प्रतिपद्यापरे पुनः। ... मोक्षे विप्रतिपद्यन्ते मीमांसापक्षपातिनः ॥ ९० ॥ तेषामप्यनुमाबाधा परिधावति पृष्ठतः । यतः कर्मक्षयो मोक्षः स च सिद्धोऽनुमानतः ॥ ९१ ॥ तथाहि क्वचिदप्यस्ति पुंसि कृत्स्नावृतिक्षयः । तत्कार्यसकलज्ञत्वस्यान्यथानुपपत्तितः ॥ ९२ ॥ सर्वज्ञत्वं न चासिद्धं कस्यचिद्वाधकात्ययात् । . सर्वत्र बाधकामावादेव वस्तुव्यवस्थितिः ॥ ९३ ॥ न तस्य बाधकं तावत्प्रत्यक्षमुपपद्यते । तस्याक्षजत्वादैत्यक्षे न विधिन निषेधनम् ॥ ९४ ॥ न चानुमानं तद्बाधां विधातुं भवति क्षमम् । तल्लिङ्गं पुरुषत्वादि व्यभिचारि यतोऽखिलम् ॥ ९५ ॥ यथाहि पुरुषत्वेऽपि वेदार्थज्ञानगोचरः । कस्याप्यतिशयस्तद्वत्सर्वार्थज्ञानगोचरः ॥ ९६ ॥ रासभो न यथा शृङ्गी देशकालान्तरेऽखिलः । तथा पुमान्न सर्वज्ञो देशकालान्तरेऽखिलः ॥ ९७ ॥ इत्यादि नोपमानं च युक्तमिष्टविघाततः। तथा हि खचरादीनां न स्यात्खगमनादिकम् ॥ ९८॥ तस्मान्नरविशेषोऽसौ यस्य सा सकलज्ञता। तथा खरविशेषश्चेदिष्टा तस्यापि शृङ्गिता ॥ ९९ ॥ न चार्थापत्तिरप्यस्ति सर्वज्ञाभावसाधनी ।
को ह्यर्थो ऽसंभवी तेने विना यस्तं प्रकल्पयेत् ॥ १० ॥ १. आवृत्तिक्षयः कार्य सर्वज्ञत्वं कारणम्. २. अतीन्द्रिये. ३. यथावत्येदानीतनाः पुरुषाः खगामिनो न तथा देशान्तरे कालान्तरे च नैवेतीष्टविघातः. ४. अनुत्पद्यमानः. ५. सर्वज्ञभावेन. ६. सर्वज्ञामावा.