________________
२ सर्गः]
चन्द्रप्रभचरितम् ।
उपकारोsपि भिन्नत्वात्तस्येति कथमुच्यते । उपकारान्तरापेक्षा विदध्यादनवस्थितिम् ॥ ७८ ॥ स्यादभिन्नस्ततो जीवः सुखदुःखादिपर्ययैः । तथापि परिणामित्वात्कथं कूटस्थनित्यता ॥ ७९ ॥ एतेन जडतां तस्य ब्रुवाणा विनिवारिताः । चिद्रूपसुखदुःखादिपर्यायैरैक्यसंभवात् ॥ ८० ॥ न चाप्यकर्तृता तस्य बन्धाभावादिदोषतः । कथं ह्यकुर्वन्बध्येत कुशलाकुशलक्रियाः ॥ ८१ ॥ भुक्तिक्रियायाः कर्तृत्वं भोक्तात्मेति खयं वदन् । तदेवापहुवानः सन्किं न जिति कापिलः ॥ ८२ ॥ अचेतनस्य बन्धादिः प्रधानस्याप्ययुक्तिकः । तस्मादकर्तृता पापादपि पापीयसी मता ॥ ८३ ॥ चित्तसंततिमात्रत्वमप्ययुक्तं प्रकल्पितम् । संतानिव्यतिरेकेण यतः काचिन्न संततिः ॥ ८४ ॥ व्यतिरेकेऽपि नित्यत्वं संतानस्य यदीष्यते । प्रतिज्ञाहानिदोषः स्यात्क्षणिकैकान्तवादिनाम् ॥ ८५ ॥ क्षणिकत्वेऽपि संतानिपक्षनिक्षिप्तदूषणम् । कृतनाशादिकं तस्य सर्वमेव प्रसज्यते ॥ ८६ ॥ नैं च व्यापकता तस्य घटनामुपढौकते । खसंविदितरूपस्य बहिर्देहादवेदनात् ॥ ८७ ॥ तस्मादनादिनिधनः स्थितो देहप्रमाणकः ।
कर्ता भोक्ता चिदाकारः सिद्धो जीवः प्रमाणतः ॥ ८८ ॥
१७
१. अस्ति नित्यस्योपकारित्वमिति चेत् तस्मादुपकारोऽभिन्नो भिन्नो वा । अभिन्नश्चेत्तत्समः भिन्नश्चेत्संबन्धासिद्धिः । उपकारान्तरमपेक्ष्य संबन्धकरणेऽनवस्थिति: स्यात्. २. परिणामित्वेनैक्यघटनात्. ३. चित्तसंततिमात्रमात्मेत्येके. ४. संतानिनः सकाशात्. ५. संतानस्य. ६. तस्य व्यापकत्वेन कृतनाशादेरभाव इति चेन्न ...
चन्द्र० ३