________________
काव्यमाला।
युज्यते व्यभिचारोऽपि न शृङ्गादेः शरादिना । तत्रापि पुद्गलत्वेन सजातीयत्वसंभवात् ॥ ६७ ।। विजातिभ्योऽपि भूतेभ्यो जायते यदि चेतनः । पयसोऽपि भवेत्पृथ्वी तेन्न तत्त्वचतुष्टयम् ॥ ६८ ॥ न चान्यदस्त्युपादानं भूम्यादिव्यतिरेकतः । भूतानां संहतिर्येन कल्प्येत सहकारिणी ॥ ६९ ॥ न चोपादानधर्मोऽपि काये कोऽप्यवलोक्यते । शरीरे तदवस्थेऽपि जीवे विकृतिदर्शनात् ॥ ७० ॥ घटादिकारणेष्वेतन्मृदादिषु न चेक्ष्यते । ततोऽनुमानबाधादि पेक्षं व्याघ्रीव वीक्षते ॥ ७१ ॥ हेतुश्चानुपलम्भादिरसिद्धोऽभावसाधने । तस्य खवेदनाध्यक्षादुपलम्भस्य संभवात् ॥ ७२ ॥ न चात्मभूतयोरैक्यं चिदचिद्रूपभेदतः। विभिन्नप्रतिभासित्वा दलक्षणसंभवात् ॥ ७३ ।। इत्थमात्मनि संसिद्धेऽनित्यत्वैकान्तकल्पना । तस्यान्यैः क्रियते तेऽपि प्रत्यक्षेणैव बाधिताः ॥ ७४ ॥ यतः खवेदनावात्या सुखदुःखादिपर्ययैः । विवर्तमाना सततं प्रतिप्राणि प्रकाशते ॥ ७५ ॥ सुखदुःखादिपर्याया जीवान्न च विभेदिनः । तस्यामी इतिसंबन्धकल्पनानुपपत्तितः ॥ ७६ ॥ नित्यस्यानुपकारित्वात्समवायो न युज्यते । उपकाराश्रया सर्वा संबन्धसमवस्थितिः ॥ ७७ ॥
१. पुद्गलत्वजात्या. २. एवं च तत्त्वसंकरः स्यात्. ३. तनु भूतानां चैतन्योत्पत्तौ सहकारित्वमेवेति चेन, उपादानान्तराभावात्. ४. विविधाकृत्यवलोकनात्. ५. यथा प्रत्यक्षेण पक्षबाधा तथानुमानेनापीति भावः. ६. स्वसंवेदनस्य तद्भावसाधकत्वात्. ७. चिदचितोः प्रतिभासभेदात्.