________________
२ सर्गः]
चन्द्रप्रभचरितम् । विषयान्तरसंचारो न च स्यादखवेदिनः । अपरापरबोधस्य वेदनीयस्य संभवात् ॥ ५७ ॥ अनवस्थालता च स्यान्नभस्तलविसर्पिणी । यदेवाविदितं तेषु तन्न पूर्वस्य वेदकम् ॥ ५८ ॥ तस्माद्विषयविज्ञानमप्रत्यक्षमवस्थितम् । तदप्रत्यक्षतायां च विषयस्यापि सौं गतिः ॥ ५९ ॥ परोक्षादपि चेज्ज्ञानादर्थाधिगतिरिष्यते । परेण विदितोऽप्यर्थस्तथा खविदितो भवेत् ॥ ६० ॥ तस्मात्खवेदने सिद्धे प्रत्यक्षे सति युक्तितः । प्रत्यक्षबाधा न भवेत्कथं नास्तित्ववादिनाम् ॥ ६१ ॥ जीवे सिद्धेऽपि गर्भादिमरणान्ते खवेदनात् । प्रागूज़ च कथं सिद्धिस्तस्येति यदि मन्यसे ॥ ६२ ॥ सदकारणवत्त्वेन सिद्धा तत्राप्यनादिता । अनन्तता च वाय्वग्निपृथिवीपयसामिव ॥ ६३ ॥ (युग्मम्) न चासिद्धमहेतुत्वं हेतोः कस्याप्ययोगतः । भूतानां च न हेतुत्वं सह प्रत्येकपक्षयोः ॥ ६४ ॥ प्रत्येकपक्षे जीवानां भूतसंख्या प्रसज्यते । . सहपक्षेऽप्यसंविभ्यस्तेभ्यः स्यान्चेतनः कथम् ॥ ६५ ॥ सजातीयं ह्युपादानं दृष्टं घटपटादिषु । मृदादीनां हि हेतूनां घटाद्यनुगमेक्षणात् ॥ ६६ ॥
१. अखवेदिनः स्वपरिज्ञानरहितस्य विषयान्तरे चेतनाचेतनान्तरे संचारो न स्यात्. २. अन्योन्यपरिज्ञानस्य. ३. अपरापरबोधेषु यदेवाविदितं तदेव पूर्वस्य खस्य वेदकं न स्यात्. ४. तत्परोक्षत्वे विषयस्यापि परोक्षत्वमेव. ५. अतः स्याद्वादमतापेक्षया जीवः खकीये काये स्वसंवेदनप्रत्यक्षसिद्धः परकीये चानुमानादिलक्षणात्परोक्षादिति भावः. ६. अध्यक्षेण जीवमपढुवानानां तेषां प्रत्यक्षमेव जीवव्यवस्थापकं भवेदिति भावः. ७. अकारणवत्त्वम्. ८. ननु च भूतानि हेतव इति चेन्न, सह प्रत्येकपक्षयोः क्रमेण युगपद्वा भूतानां हेतुत्वं कारणत्वं न. ९. एकैकाद्भताजीवोत्पत्तौ. १०. अचेतनेभ्यः.