________________
१४
काव्यमाला ।
जीवमन्ये प्रपद्यापि तद्धर्मे प्रति वादिनः । विदन्ते प्रबन्धेन विविधागमवासिताः ॥ ४८ ॥ कूटस्थनित्यतां केचित्केचिंदाहुरकर्तृताम् । अन्ये तु जडतामैन्ये चित्तसंततिरूपिताम् ॥ ४९ ॥ इत्याद्यनेकसिद्धान्तर्गहने गहने स्थितः । यातु दिग्भ्रमसंभ्रान्तः पुरुषः केन वर्त्मना ॥ ५० ॥
इत्युक्त्वा वाचमुच्चार्थी विरराम नरेश्वरः । भारतीमथ गम्भीरां जगाद परमेश्वरः ॥ ५१ ॥ त्वयैवं ब्रुवता सूक्तं नृप सत्यमिदं कृतम् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ ५२ ॥ जीवाजीवादि यत्पृष्टमस्पृष्टपरदूषणम् । यथा भवति तत्सर्वं तथाहं कथयामि ते ॥ ५३ ॥ जीवो नास्तीति पक्षोऽयं प्रत्यक्षादिनिराकृतः । तत्र हेतुमुपन्यस्यन्कुर्यात्कः खविडम्बनाम् ॥ ५४ ॥ प्रतिजन्तु यतो जीवः स्वसंवेदनगोचरः । सुखदुःखादिपर्यायैराक्रान्तः प्रतिभासते ॥ ५५ ॥ नेचास्वविदितं ज्ञानं वेद्यत्वात्कलशा दिवत् । स्वात्मन्यपि क्रियादृष्टेर्दीपादेः खप्रकाशनात् ॥ ५६ ॥
१ मिथ्या जल्पन्ति. २. सांख्याः ३. मीमांसकाः. ४. नैयायिकाः. ५. बौद्धाः . ६. दुष्प्रवेशे वने. ७. परोपकल्पितदूषणसंपर्करहितं यथा स्यात्. ८. जीवो नास्तीति चार्वा - कैरुपन्यस्यते. प्रसिद्धो धर्मी पक्षः तत्र चार्वाकाप्रसिद्धस्य जीवस्य पक्षत्वकरणे खविडम्बनां कः कुर्यात् ? प्रसिद्धपक्षस्य हेतुविषयत्वं क्रियते. अथवा जीवो नास्ति अनुपलब्धेरिति भवतानुपलम्भविषयीक्रियमाणो जीवः पक्षः प्रत्यक्षेणोपलम्भेन स्वसंवेदनलक्षणेनैव निराकृत इति ९. न चेदं स्वसंवेदन गोचरत्वमसिद्धं सुखदुःखादिपर्यायैराक्रान्तत्वात्. १०. अस्खविदितं ज्ञानं न भवति वेद्यत्वात्, यद्वेद्यं तदखविदितं यथा कलशा दिरिति न वाच्यम्, स्वात्मन्यपि क्रियादर्शनात् दीपादेः स्वप्रकाशनवत्, यथा दीपः स्वं प्रकाशयन्नेवार्थ प्रकाशयति तथा ज्ञानं स्वं विदन्नेवार्थं वेत्तीति.