________________
२ सर्गः]
चन्द्रप्रभचरितम् ।
:
ददृशे च मुनिस्तेन स्थितो नीलशिलातले । शेरत्प्रसन्ने शीतांशुरिवाकाशैकमण्डले ॥ ३६ ॥ त्रिः परीत्य प्रणम्य त्रिस्त्रिर्जयेति निगद्य सः । त्रिरुक्तमखिलं कृत्वा न्यँविक्षत मुनेः पुरः ॥ ३७ ॥ नृपतेर्मुकुलीकुर्वन्स कराम्भोरुहद्वयम् । शीतगुत्वं व्यनक्ति स्म स्वकीयं मुनिपुंगवः ॥ ३८ ॥ भुवः शोभाभवद्योगाद्या जिनेन्द्रसुरेन्द्रयोः । तयोः संगतयोरासीत्सा नरेन्द्रमुनीन्द्रयोः ॥ ३९॥ शौन्ते जयजयेत्युच्चैर्भव्य कोलाहले ततः । दत्ताशीर्मुनिना तेन जगाद जगतीपतिः ॥ ४० ॥ निरालोके जगत्यस्मिन्नदृष्ट शिववर्त्मनि । सन्मार्गदर्शनान्नाथ त्वमालोक इवोद्गतः ॥ ४१ ॥ पुष्पं तदहं मन्ये भुवने सचराचरे ।
दिव्यज्ञानमये यन्न स्फुरितं तव चक्षुषि ॥ ४२ ॥ ततोऽवगन्तुमिच्छामि त्वत्तस्तत्त्वं जगत्प्रभो । संदिग्धं हि परिज्ञानं गुँरुप्रत्ययवर्जितम् ॥ ४३ ॥ केचिदित्थं यतः प्राहुर्नास्तिकागममाश्रिताः । न जीवः कश्चिदप्यस्ति पदार्थो मानगोचरः ॥ ४४ ॥ अजीवश्च कथं जीवापेक्षस्तं स्यात्यये भवेत् । अन्योन्यापेक्षया तौ हि स्थूलसूक्ष्माविव स्थितौ ॥ ४५ ॥ कथं च जीवधर्माः स्युर्बन्धमोक्षादयस्ततः । सति धर्मिणि धर्मा हि भवन्ति न तदत्यये ॥ ४६ ॥ तस्मादुपप्लुतं सर्वं तत्त्वं तिष्ठतु संवृतम् । प्रसार्यमाणं शतधा शीर्यते जीर्णवस्त्रवत् ॥ ४७ ॥
१३
१. वर्षान्तनिर्मले. २. त्रिः प्रदक्षिणीकृत्य. ३. उपविष्टवान् ४. चन्द्रत्वन्. ५. उपरते. ६. गुरुविश्वास रिक्तम्. ७. चार्वाकसिद्धान्तम् ८ प्रमाणविषयः ९. जीवाभावे - ऽजीवः कथं वक्तुं युज्यते, जीवाजीवयोः सापेक्षत्वात्. १०. बाधितम् ११. अप्रसारितम्. जीवो नास्ति अजीवोऽपि नास्ति ततस्तत्त्वमुपप्लुतमेवेति तत्त्वोपप्लववादिनः.