________________
१२
काव्यमाला।
इति श्रुत्वा स तद्वाणीं मुनिवृत्तान्तशंसिनीम् । खाङ्गेऽपि न ममौ हर्षादुद्वेल इव वारिधिः ॥ २४ ॥ सत्कृत्य स खकीयैस्तं भूषणैः पारितोषिकैः । वनपालमथान्यैश्च कृतार्थमकरोद्धनैः ॥ २५ ॥ यस्य देवस्य गन्तव्यं स देवो गृहमागतः । इत्युक्तिं घोषयन्नुच्छरुदस्थादासनादसौ ॥ २६ ॥ दिशि तस्यामवस्थाय यत्रासौ परमेश्वरः । बद्धा लक्ष्यमसौ भूमावैनंसीत्तस्य पादयोः ॥ २७ ॥ व्यानशेऽथ तदादेशात्पुरं पटहनिःखनः । मुनिवन्दनयात्रायां कुर्वन्संकेतिनीः प्रजाः ॥ २८ ॥ पञ्चषानपि कृत्वाग्रे पत्तीन्प्राप्तैर्नराधिपैः । क्रमशः संमिलल्लोकैरक्षुभ्यद्राजगोपुरम् ॥ २९ ॥ सपौरः ससुहृद्वर्गः सकलत्रः सबान्धवः । सतनूजः ससामन्तः स चचाल ससैनिकः ॥ ३० ॥ गच्छंल्लावण्यसंक्रान्तदिदृक्षुनयनो वनम् । नन्दनाभिमुखीभूतशक्रशोभा बभार सः॥ ३१ ॥ क्षणादशोकसंयुक्तं पुनागपरिवारितम् । वनमात्मसमं प्राप्य पिप्रिये पृथिवीपतिः ॥ ३२ ॥ वायुना विदधे किंचित्संजाताध्वपरिश्रमः । वनलक्ष्मीविनिःश्वाससमेन विपरिश्रमः ॥ ३३ ॥ सेनापतिं समादिश्य सेनामावासयेति सः । प्रविवेश महानागादवतीर्य महावनम् ॥ ३४ ॥ राजलीलां परित्यज्य चीमरादिपरिच्छदाम् ।
विनीतः शिष्यवद्भेजे देशं मुनिसमाश्रितम् ॥ ३५ ॥ - १. उत्तरङ्गः, २. उदतिष्ठत्. ३. ननाम. ४. व्याप्नोति स्म. ५. संकेतयुक्ताः . ६. जगाम. ७. लावण्येन संक्रान्तानि प्रतिबिम्बितानि दिदृषणां द्रष्टुमिच्छूनां नयनानि यत्र सः. ८. तुष्टः. ९. विगतखेदः. १०. चामरादिपरिकरोपेताम्.