________________
१ सर्गः]
चन्द्रप्रभचरितम् ।
वसन्तमनपेक्ष्यैव तस्यातिशयविस्मिताः । रोमाञ्चानिव मुञ्चन्ति कोरकांश्धूतपादपाः ॥ १२ ॥ तत्सङ्गादिव संजातशान्तचित्तेन पुष्प्यता । न विसोढमशोकेन कामिनीपादताडनम् ॥ १३ ॥ बकुला अपि दृष्ट्वा तमणुव्रतमिवाश्रिताः । यद्वधूर्मधुगण्डूषाननादृत्यैव पुष्पिताः ॥ १४ ॥ तिलैकस्तिलकं पृथ्व्यास्तं दृष्ट्वा व्यकसत्क्षणात् । स्वपक्षदर्शनात्कस्य न प्रीतिरुपजायते ॥ १५ ॥ तद्धर्मश्रवणज्जातविबोधा इव चम्पकाः ।
न मनागप्यजायन्त मलिनालिसमाश्रयाः ॥ १६ ॥ यथा पलाशास्तत्रेश शोभन्ते न च किंशुकैः । तथैव जम्बूतरवो विराजन्ते न किं शुकैः ॥ १७ ॥ जयशब्दं वयः शब्दैः कुर्वत्याः काननश्रियः । दन्तावलिरिवाभाति कुन्दकुलसंहतिः ॥ १८ ॥ हासानिव विमुञ्चन्तः संतोषात्कुसुमोद्गमान् । शिखण्डिताण्डवाटोपं तन्वन्ति कुटजद्रुमाः ॥ १९॥ भयात्पलायमानस्य कामस्य गलिता करात् । बाणावलिरिवाभाति बाणावलिरितस्ततः ॥ २० ॥ चिसङ्गाद्विकासो मे कश्चातोऽपि मुनेः शुचिः । इतीव मन्यमानागाद्विकासं नवमल्लिका ॥ २१ ॥ कदम्बैः सहसा नाथ विकसत्कुसुमोत्करैः । रोमाञ्चकञ्चुकाधानादहमात्मसमीकृतः ॥ २२ ॥ तिरश्चां संहतिस्तत्र परस्परविरोधिनी । विरोधं सहजं हित्वा बन्धुभावेन वर्तते ॥ २३ ॥
११
१. मद्यकुरलकानू. ३. बाणाख्यवृक्षपङ्क्तिः. ४. शुचिर्निर्मलो ज्येष्ठमासश्च.
२. उत्तमनायिकया विलोकितस्तिलवृक्षः पुष्पितो भवति.