________________
काव्यमाला। अथैकदास्थानगतं प्रतीहारनिवेदितः । वनपालो महीपालमिति नत्वा व्यजिज्ञपत् ॥ १॥ देव देवोचितस्थाने सुगन्धिपवने वने । मुनिरेकः समायातः शब्दार्थाभ्यां मनोहरे ॥ २ ॥ भुवनव्यापिनी भव्यपुण्डरीकाभिनन्दिनीम् । धत्ते श्रीधर इत्याख्यां यो भानुरिव दीधितिम् ॥ ३ ॥ दारुणं यस्तपस्तेजः सौम्यां च दधदाकृतिम् । समाहारेण निवृत्तः सूर्याचन्द्रमसोरिव ॥ ४ ॥ मोक्षसंधानचित्तेन गुणमार्गणशालिना । येन चापधरेणेव भूतेभ्योऽदीयताभयम् ॥ ५ ॥ त्रिकालगोचरानन्तपर्यायरिनिष्ठितम् । प्रतिबिम्बमिवाद” जगद्यद्वचसीक्ष्यते ॥ ६ ॥ सुवर्णैरभिनिर्वृत्ता दत्तमुक्तोत्तमास्पदाः । यस्याश्चर्यकथाः कर्णपूरायन्ते विपश्चिताम् ॥ ७ ॥ भ्रमन्ति भुवनाभोगे निश्चला अपि यद्गुणाः । असंख्येयाश्च सर्वत्र व्रजन्ति गैणनीयताम् ॥ ८ ॥ यत्पादपांसुसंपर्कादलंकृतशिरोरुहाः। निस्पृहा वासचूर्णेषु भवन्ति नृसुरासुराः ॥ ९ ॥ भाखानपि च यः सेव्यपादोऽभूत्तापवर्जितः । विकासयति चाशेषकुमुदं कुमुदोज्ज्वलः ॥ १० ॥ मुनेस्तस्य प्रभावेण या विभूतिरभूबने । तां विवक्ष्याम्यहं किं तु वक्रं नोक्तं करोति मे ॥ ११ ॥
१. मालाकारे. २. शब्देन मनोहरनामनि अर्थेन च हृदयहारिणि. ३. मोक्षस्य मुक्तेः संधानमेकाग्रता तत्र चित्तं यस्य; (पक्षे) मोक्षो वेध्यम्. ४. परिकलितम्. ५. गणनीयतां गणनाविषयतां; गणेन जनवृन्देन नीयतां प्राप्यतां च. ६. सुगन्धिचूर्णेषु. ७. (पक्षे) भूम्याः प्रमोदम्. ८. वक्तुमिच्छामि.