________________
१ सर्गः]
चन्द्रप्रभचरितम् । इति विषयविरक्तश्छन्नया कर्णजाहं .
खयमिव स समेत्य व्याहृतो मुक्तिदूत्या । न्यविशत मुंनिमार्गे चेतसा चारुचेता
भवति हि मतिभाजां काललब्धिर्न वन्ध्या ॥ ८० ॥ प्रपृच्छय सुतमात्मनस्तमपरेधुरुधच्छ्रियं
प्रमृज्य च तदक्षिणी विगलदश्रुणी पाणिना । मुनीन्द्रमविनिन्दितं समभिवन्द्य स श्रीधरं
__तपः समधिशिश्रिये नृपतिभिः समं भूरिभिः ॥ ८१ ॥ गुरुविरहभवेन पद्मनाभो भृशमसुखेन हतस्तदा तैताम । नरपतिपदमास्थितोऽपि लक्ष्मीर्भवति मुदे नहि बान्धवैर्वियुक्ता ॥ ८२ ॥
विपुलमतिभिर्वृद्धामात्यैः कृतप्रतिबोधनः
पितृविरहजं हित्वा शोकं कियद्भिरसौ दिनैः । नयनविगलद्वाष्पापूरी सुधीः समभावय
प्रकृतिमुभयीं खामिस्नेहाकुलीकृतचेतसम् ॥ ८३ ॥ एतस्यानृजुरयमष्टमीमृगाको व्याक्षिप्तो विकटललाटपट्टकेन । संजातानतिभिरितीव तत्र भेजे भूपालैर्न कुटिलता नृपासनस्थे ॥८॥
तेजोनिधावुदयधाम्नि सुवर्णनाभ
नाम्नि प्रवर्त्य तनये युवराजशब्दम् । भोगार्नवास्थित संदानुभवन्स भूपः
सोमप्रभादशनजातकिणाङ्कितौष्ठः ॥ ८५ ॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये प्रथमः सर्गः ।
१. श्रवणसमीपम्. २. आहूत इव. ३. रत्नत्रये चेतसा न्यविशत तस्थौ. ४. श्रीधरनामकम्. ५. चक्लाम. ६. अमात्यादिरूपां खभावरूपां च. ७. जितः. ८. तस्थौ. ९. सर्वदा निर्विशन्.