________________
काव्यमाला ।
प्रहतं मरणेन जीवितं जरसा यौवनमेष पश्यति । प्रतिजन्तु जनस्तदप्यहो स्वहितं मन्दमतिर्न पश्यति ॥ ६९ ॥ यदतीतमतीतमेव तत्सुखमागामिनि को विनिश्चयः । समुपैति वृथा बत श्रमं पुरुषस्तत्क्षण सौख्य मोहितः ॥ ७० ॥ परिणामहिते समीहते पथि सद्यः सुखलिप्सया न यः । स शिवादतिविप्रेकृष्यते ज्वररोगीव विरुद्धसेवया ॥ ७१ ॥ दहनस्तृणकाष्ठसंचयैरपि तृप्येदुदधिर्नदीशतैः ।
न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः ॥ ७२ ॥ वपुरप्यतिमात्रमान्तरं त्यजति प्राणिनमायुषः क्षये । विरहे खलु कोsa विस्मयो बहिरङ्गैर्धनमित्रबान्धवैः ॥ ७३ ॥ सुखमिष्टसमागमे यथा विरहे तस्य तथैव चासुखम् । अत एव सैजन्ति निर्वृतौ सुधियः सङ्गसुखैकनिःस्पृहाः ॥ ७४ ॥ हितँमेव न वेत्ति कश्चन भजतेऽन्यः खलु तत्र संशयम् । विपरीतरुचिः परो जगत्रिभिरज्ञानतमोभिराहतम् ॥ ७५ ॥ परिणामसुखं शरीरिणां जिनवाक्यं न विहाय विद्यते । सरुजामिव पथ्यमौषधं तर्दनात्मज्ञतया न रोचते ॥ ७६ ॥ aart यथाविधि श्रुतं प्रतिपद्योत्तमसाधुसंगमम् । अवयन्र्भवफल्गुतामिमामपरः कोऽहमिव प्रमाद्यति ॥ ७७ ॥ सुखमायतिदुःखंमक्षजं भजते मन्दमतिर्न बुद्धिमान् । मधुदिग्धमुखाममन्दधीरसिधारां खलु को लिलिक्षैति ॥ ७८ ॥ असुखैकफलं प्रभज्य यो ‘रेसिति प्रेममयं न पल्लवम् । 'प्रैविरक्तमतिः प्रवर्तते पुरुषः श्रेयसि हा स वञ्चितः ॥ ७९ ॥
१. प्रयतते. २. दूरीक्रियते. ३. अपथ्य भोजनादिना. ४. इष्टस्य ५. सक्ता भवन्ति ६. निर्वृतौ मोक्षे. ७. कश्चन मोक्षस्तत्कारणं च हितं तदेव न वेत्ति अन्यः पुमान् खलु शास्त्रोक्ते तत्र हिते संदेहं भजते; परोऽन्यो विपरीतरुचिः विपरीता अतद्गुणे तगुणाभा रुचिः श्रद्धा यस्य सः, एवंविधैस्त्रिभिरज्ञानान्धकारैर्जगदाहतं बाधितम् ८. ज९. संसारासारतां जानन्. १०. इन्द्रियजन्यं सुखम् ११. लेढुमिच्छति. १२. 'झटिति' क. १३. निर्विण्णः .
डतया.