SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। जलवन्मस्त्ययानस्य तत्र यो गतिकारणम् । जीवादीनां पदार्थानां स धर्मः परिवर्णितः ॥ ६९ ॥ लोकाकाशमभिव्याप्य संस्थितो मूर्तिवर्जितः । नित्यावस्थितिसंयुक्तः सर्वज्ञज्ञानगोचरः ॥ ७० ॥ द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् । लोकेऽभिव्यापकत्वादिधर्मो धर्मोऽपि धर्मवत् ॥ ७१ ॥ नित्यं व्यापकमाकाशमवगाहैकलक्षणम् । चराचराणि भूतानि यत्रासंबाधमासते ॥ ७२ ॥ धर्माधर्मैकजीवानामसंख्येयाः प्रकीर्तिताः। प्रदेशाः सकलज्ञानोमानन्तप्रदर्शकम् ॥ ७३ ॥ वर्तनालक्षणः कालः स खयं परिणामिनाम् । परिणामोपकारेण पदार्थानां प्रवर्तते ॥ ७४ ॥ क्रियां दिनकरादीनामुदयास्तमयादिकाम् । प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ॥ ७५ ॥ तन्न युक्तं क्रियायां हि लोके काल इति ध्वनिः । प्रवृत्तो गौणवृत्त्यैव वाहीक इव गोध्वनिः ॥ ७६ ॥ न च मुख्याहते गौणकल्पना नरसिंहवत् । तस्माद्र्व्यखभावोऽन्यो मुख्यः कालोऽस्ति कश्चन ।। ७७ ॥ रूपगन्धरसस्पर्शशब्दवाः पुद्गलः स्मृतः । अणुस्कन्धप्रभेदेन द्विखभावतया स्थितः ॥ ७८ ॥ पृथिव्यादिवरूपेण स्थूलसूक्ष्मादिभेदतः । छायातपादिरूपेण बहुधा स विभिद्यते ॥ ७९ ॥ शरीरेन्द्रियरूपेण प्राणापानादिपर्ययैः । प्राणिनामुपकाराय स सर्वेषां प्रवर्तते ॥ ८० ॥ विरक्तमित्यजीवस्य रूपमागमवर्णितम् । संप्रत्याश्रवतत्त्वस्य किंचिद्रूपं निरूप्यते ॥ ८१ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy