________________
१४४
काव्यमाला। आर्याः षटुर्मभेदेन षोढा भेदमुपागताः । ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ॥ ४३ ॥ मिथ्यासासादनविधौ मिश्रा विरतिदर्शनौ । प्रदेशविरतस्तस्माप्रमत्तविरतस्ततः ॥ ४४ ॥ स्यादप्रमत्तविरतस्ततोऽपूर्वक्रियः स्मृतः । अनिवृत्तिक्रियस्तम्भात्ततः सूक्ष्मः प्रकीर्तितः ॥४५॥ शान्ततीक्ष्णकषायौ च स योगः केवली स्मृतः। अयोगकेवली चेति गुणस्थानान्यनुक्रमम् ॥ ४६ ॥ इति मानुषभेदेन कृता जीवनिरूपणा । सांप्रतं देवभेदेन कुर्वे किंचित्रपञ्चनम् ॥ १७ ॥ चतुर्णिकायभेदेन स्मृता देवाश्चतुर्विधाः । असुराहिकुमाराद्या दशधा तेषु भावनाः ॥ ४८ ॥ किंनरादिप्रभेदेन व्यन्तराश्चाष्टधा स्मृताः । सूर्यचन्द्रादिभेदेन ज्योतिष्काः पञ्चधा स्मृताः ॥ ४९ वैमानिका द्विधा प्रोक्ताः कल्पातीताश्च कल्पजाः। सौधर्मादिषु कल्पेषु कल्पजाः परिकीर्तिताः ॥ ५० ॥ नव अवेयकादिस्थाः कल्पातीताः प्रवर्णिताः । सर्वार्थसिद्धिपर्यन्ताः समृद्धावधिचक्षुषः ॥ ५१ ॥ तत्रासुरकुमाराणां प्रमाणं पञ्चविंशतिः । धनूंषि दश चापानि शेषाणां भवनक्षिताम् ॥ ५२ ॥ दशसप्तधनुर्माना व्यन्तरा ज्यौतिषामराः। सौधर्मेशानयोर्मानं सप्त हस्ता दिवौकसाम् ॥ ५३ ॥ सनत्कुमारमाहेन्द्रकल्पयोः षट् प्रकीर्तिताः । ब्रह्मकापिष्ठयोः पञ्च तन्मध्यगतयोरपि ॥ ५४ ॥ चत्वारः शुक्रमारभ्य हस्ताः प्रागानताः स्मृताः । आनते प्राणते चापि त्रयः सार्धाः प्रवर्णिताः ॥ ५५ ॥