SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १८ सर्गः ] T चन्द्रप्रभचरितम् । मध्यमासु च चत्वारि द्वे जघन्यासु कीर्तिते । त्रीणि पल्योपमान्यायुद्धे चैकं ताखनुक्रमात् ॥ ३० ॥ मद्याङ्गादिभिदाभिन्नं दशकल्पद्रुमोद्भवम् । पात्रदानप्रभावेण भुञ्जते तत्र ते फलम् ॥ ३१ ॥ आर्यम्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजाः । भरतादिभिदा पञ्चदश स्युः कर्मभूमयः || ३२ ॥ शतानि पञ्च चापानां कर्मभूमिनिवासिनाम् । पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तितः ॥ ३३ ॥ पूर्वकोटिप्रमाणं च तेषामायुः प्रकीर्तितम् । वृद्धिहासौ विदेहेन भरतैरावतेष्विव ॥ ३४ ॥ भरतैरावते वृद्धिहासिनी कालभेदतः । उत्सर्पिण्यवसर्पिण्यौ कालभेदावुदाहृतौ ॥ ३५ ॥ सागरोपमकोटीनां दश कोट्योऽवसर्पिणी । प्रमाणं तावदेवाहुरुत्सर्पिण्याश्च तद्विदुः ॥ ३६ ॥ सुषमोपपदा प्रोक्ता सुषमासुषमा ततः । दुःषमा सुषमाद्यान्या सुषमान्ता च दुःषमा ॥ ३७ ॥ पञ्चमी दुःषमा ज्ञेया षष्ठी चात्यन्तदुःषमा । प्रत्येकमिति षड्भेदास्तयोरुक्ता द्वयोरपि ॥ ३८ ॥ सागरोपमकोटीनां चतस्रः कोटयः स्मृताः । पूर्वा तिस्रो द्वितीया च द्वे तृतीया प्रकीर्तिता ॥ ३९ ॥ द्वाचत्वारिंशता वर्षसहस्रैः परिकीर्तिता । एका कोटी च कोटीनां चतुर्थी परिकीर्तिता ॥ ४० ॥ पञ्चमी च सहस्राणि वर्षाणामेकविंशतिः । षष्ठी तावत्प्रमाणैव जिनैः कालकलाः स्मृताः ॥ ४१ ॥ म्लेच्छेखण्डप्रभेदेन पञ्चधा परिकीर्तिताः । म्लेच्छखण्डा यतः पञ्च कथ्यन्ते कर्मभूमिषु ॥ ४२ ॥ १४३ १. पुस्तकान्तरे 'ष' इत्यस्य स्थाने 'ख' इति कवर्गद्वितीयवर्णो दृश्यते. २. पुस्तकद्वयेऽपि ‘म्लेच्छाखण्ड' इति पाठोऽस्ति,
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy