________________
काव्यमाला।
खकराङ्गुलीनिजमुखेन विबुधपतियोजितामृताः। प्रीतिविकसितमुखः स लिहन्न चकार मातृकुचयोरतिस्पृहाम् ॥ १३ ॥ विदधज्जितस्फटिककान्तिरखिलजनलोचनोत्सवम् । वृद्धिमभजत जिनाधिपतिः प्रतिपच्छशाङ्क इव सोऽनुवासरम् ।। ४४ ॥ तमरीरमत्सुरकुमारसमितिरभिगम्य सुन्दरम् । पौरजनहृदयहृष्टिकरैः करकन्दुकप्रभृतिभिर्विनोदनैः ॥ ४५ ॥ प्रकृतिस्फुटं ग्रहगणस्य गमनमिव चापलं शिशोः । क्रीडनमकृत पृथग्जनवत्प्रतिबद्धबुद्धिरपि यजिनेश्वरः ॥ ४६ ।। विचरन्स कुट्टिममहीषु परिजनकराङ्गुलीः श्रितः । मन्दनिहितचरणो रुरुचे सरसीषु हंस इव वासरद्युतिः ।। ४७ ॥ शुशुभे करात्करतलानि सकलसुहृदां स संचरन् । दीधितिरुचिरवपुर्वणिजामविबुद्धमूल्य इव वारिधेर्मणिः ॥ ४८ ॥ मणिमुद्रिकाकटकहारवसनरसनादिभूषणम् । तस्य सुरपतिगिरा धनदः प्रजिघाय सर्वमपि शैशवोचितम् ॥ १९ ॥ स कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः । कर्मभिरतिशयितान्यजनैरनयत्कियन्तमपि कालमूर्जितः ॥ ५० ॥ हरिपीठमास्थितवतोऽथ निखिलनिजपार्थिवान्वितः । तस्य विरचितविवाहविधिरकरोत्पिता नृपतिपट्टबन्धनम् ॥ ५१ ॥ प्रशशास पूज्यवचनस्य स पितुरुपरोधतो महीम् । मुक्तिसुखविनिहितैकमतैर्नहि तस्य कापि विषयाभिलाषिता ॥ ५२ ॥ वसुधामवत्यतुलधानि चतुरुदधिवारिमेखलाम् । तत्र भृशमभिननन्द जनो जनवृद्धिहेतुरुदयो हि तादृशाम् ॥ ५३ ।। न बभूव कस्यचिदकालमरणमखिलेषु जन्तुषु । जातुचिदपि न जनाकुलतां व्यदधादवृष्टिरतिवृष्टिरेव वा ॥ ५४ ॥ न समीरणः श्रवणभेदिपरुषरवदारुणो ववौ । नास्पदमलभत रोगगणः समपादि नातिहिममुष्णमेव वा ।। ५५ ।।