________________
१७ सर्गः ]
चन्द्रप्रभचरितम् ।
न विबाधनं जनपदस्य समजनि कदाचिदीतिभिः । क्रूरमृगसमुदयोऽप्यभवन्न पुरे च हिंसनविषक्तमानसः ॥ ५६ ॥ तमुपायनैः समुपगम्य सदसि परचक्रपार्थिवाः । द्वाःस्थकथितनिजनामकुलाः शिरसा प्रणेमुरवनीतलस्पृशः ॥ ५७ ॥ रजनीमहश्च स विभज्य विबुधनुतबुद्धिरष्टधा । कर्मभिरनयत सर्वजगन्नयमार्गदर्शनपरो यथोचितैः ॥ ५८ ॥ तमुपेत्य शक्रवचनेन नरपतिसहस्रमध्यगम् । भेजुरमरवनिता विविधैः प्रतिवासरं ललितगीतनर्तनैः ॥ ५९ ॥ कमलप्रभाप्रभृतिदिव्यनिजयुवतिवृन्दवेष्टितः ।
भोगसुखमिति यथाभिमतं चिरमन्वभूत्स जगदेकनायकः ॥ ६० ॥ अपरेद्युरुन्नमितबाहुरधिकजरया निपीडितः ।
तस्य सदसि समुपेत्य शनैः श्रितयष्टिरित्यकृत कोऽपि पूत्कृतिम् ॥ ६१ ॥ सुरवृन्दवन्द्य करुणार्द्र शरणगतलोकवत्सल ।
त्रातरखिलजगतां कृपणं भयभीतमस्तभय रक्ष रक्ष माम् ॥ ६२ ॥ कथितो निमित्तिपुरुषेण रजनिसमये समेत्य माम् । मृत्युरविहतगतिप्रसरस्तव पश्यतोऽद्य जगदीश नेष्यति ॥ ६३ ॥ क्षमसे ततो यदि न पातुमसि जिन वृथान्तकान्तकः । वाचमिति समभिधाय पुरः सहसा तिरोहितवपुर्बभूव सः ॥ ६४ ॥ वद देव कोऽयमिति सभ्यजनवचनमारुतेरितः । दृष्टनिखिलभुवनोऽवधिना भगवान्हसन्निति जगाद कारणम् ॥ ६५ ॥ मम कर्तुमेष विषयेषु विरतिममराधिपाज्ञया । धर्मरुचिरिति सुरस्त्रिदिवात्समुपाययौ विकृतवृद्धविग्रहः ॥ ६६ ॥ विनिवेद्य सभ्यनिवहस्य कृतपरमविस्मयस्य तम् । भोगविरतहृदयः स भवस्थितिमित्यचिन्तयदचिन्त्यचेष्टितः ॥ ६७ ॥ धनयौवनप्रभृति सर्वमनुगतमिदं शरीरिणाम् । न क्षणमपि भवति स्थितिमन्निजपूर्वजन्मकृतपुण्यसंक्षये ॥ ६८ ॥
चन्द्र० १३
१३७