________________
१७ सर्गः]
चन्द्रप्रभचरितम् । तव दर्शनं जगदधीश विदधदजरामरं जगत् । कस्य न कथय रसायनवद्विदुषामभव्यमपहाय रोचते ॥ ३० ॥ सुखमाश्रिताय जिननाथ वितरसि यदिच्छया विना। . शक्तिरियमनघ ते सहजा किमु विनसा श्रमहरं न चन्दनम् ॥३१ ।। स कृती कृतार्थमपि तस्य जगति कलयामि जीवितम् ।। यस्य हृदयसरसि स्फुरति प्रतिवासरं जिन तवाभिपङ्कजम् ॥ ३२ ॥ सुरपूज्य यः सततमेव वहति हृदयेन नाम ते । मन्त्रकुशलमिव शाकिनिकाः प्रभवन्ति न च्छलयितुं तमापदः ॥ ३३ ॥ मतिमातनोति हरतेऽधमुपनयति सर्वसंपदः । किं तदधिप विदधाति न यद्भवदङ्ग्रिपङ्करुहसेवनं नृणाम् ॥ ३४ ॥ सकलोऽप्यपेक्ष्य किमपीश परहितरतः प्रजायते । न कचिदियमुपलब्धचरी तव निर्व्यपेक्ष भुवनोपकारिता ॥ ३५ ॥ हरयोऽभिषेकमुपगम्य विधदति शची प्रसाधिका । वारि वहति निवहो द्युसदामपरस्य कस्य महिमा जिनेदृशः ३६ ॥ पशवोऽपि संनिधिमवाप्य तव जिन भवन्ति भाक्तिकाः । मानुषतनुरपि यस्तु मतिं त्वयि नातनोतु स पशुः पशोरपि ॥ ३७॥ भयरोगशोकमरणानि भवभयविचित्रवेदनाः। तावदभव भजते भवभृत्त्वयि यावदस्य हृदयं न लीयते ॥ ३८ ॥ नम इत्यपि त्वयि जिनेन्द्र विनिगदितमक्षरद्वयम् पापमखिलमपहन्ति नृणामपरस्तु वाग्विभव एव वाग्मिनाम् ॥ ३९ ॥ इति संप्रधार्य भुवनेश भवति विनुतिः प्रबनता । सिद्धनुतिकृतफलेन मया न वितन्यते जिन ततो नमोऽस्तु ते ॥४०॥ तमिति प्रणुत्य गुरुभक्तिभरनततनुः पुरंदरः। सोत्सवमनयत चन्द्रपुरी परिवारितः सुरगणेन नृत्यता ॥ ४१ ॥ प्रविधाय तत्र पुनरेव मुदितहृदया महोत्सवम् । भेजुरमरनिवहाः स्वभुवं विनिवेद्य तं जनवयोर्जिनार्भकम् ॥ ४२ ॥ १. स्वभावेनेति टीका.