________________
१३४
काव्यमाला ।
सुरपेटकैः पटु नटद्भिरतिललित गीतवादितैः ।
नृत्तमयमिव तदा सकलं सदिगन्तरं समभवन्नभस्तलम् ॥ १७ ॥
भुवनातिशायिजिनरूपविनिहितविलोचनोत्पलैः ।
लङ्घितमपि बुबुधे विबुधैर्न सुराद्रिवर्त्म तदुपात्तविस्मयैः ॥ १८ ॥ अथ ते परीत्य सुरशैलमुरुरुचिर चैत्यमन्दिरम् । पाण्डुकदृषदि सुरप्रमुखा हरिविष्टरे सुखमतिष्ठयञ्जिनम् ॥ १९ ॥ सुरपङ्क्तिमाशु विरचय्य कृतविततिमा पयोम्बुधः । चक्रुरमलतरदुग्धघटैरभिषेचनं त्रिदशलोकनायकाः ॥ २० ॥ अभिषिच्य तं ललितनृत्तमधुररवगीतवादितैः । वज्रमयनिशितसूचिकयाळावेविधुर्युगं श्रवणयोः सुरेश्वराः ॥ २१ ॥ मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूषणैः ।
दिव्यकुसुमवसनैश्च सुरास्तमभूषयंस्त्रिभुवनैकभूषणन् ॥ २२ ॥ प्रविधाय ते समयमेकममरपतयः कृतोत्सवाः । चन्द्रसमरुचिरयं भगवानिति चन्द्रपूर्वममुमाह्वयन्प्रभुम् ॥ २३ ॥ अथ भक्तितः प्रथमकल्पपतिरितरवासवान्वितः । स्तोतुमिति विरचिताञ्जलि तं सहजत्रिबोधसहितं प्रचक्रमे ॥ २४ ॥ सकलावबोधमकलङ्कमनुपममचिन्त्यवैभवम् ।
जन्मरहितमजरामरणं जितमत्सरं जिनमभिष्टुवेऽष्टमम् ॥ २५ ॥ स्तुतिशक्तिरस्ति न ममेश तदपि हितकाङ्क्षया स्तुवे । शक्यमिदमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः ॥ २६ ॥ हरिविष्टरस्थितमशेषजननयनहारि ते वपुः ।
कान्तिरुचिरमुदयाद्विशिरोगतमिन्दुमण्डलमिवावभासते ॥ २७ ॥
जिन यः समाश्रयति मार्गमखिलजनवत्सलस्य ते ।
तस्य न भवभयमस्ति पुनः किमु नौस्थितो जलनिधौ निमज्जति ॥ २८ ॥ तव नाथ यश्चरणयुग्ममविचलितभक्ति सेवते ।
तस्य किमु खलु करोति यमो नहि बाधते तुहिनमग्निसेविनम् ॥ २९ ॥