________________
१२८ •
काव्यमाला ।
लावण्यं भृशमदधादभूदगाधो रत्नानामपि परमालयो बहूनाम् । अन्वेतुं तदपि शशाक यं महेच्छं नाम्भोधिः प्रलयपराकृतव्यवस्थः ॥ १३ ॥ शौर्यं नातिशयि समुज्झितं नयेन न क्षान्त्या रहितमुदारया प्रभुत्वम् । यस्यासीद्विनयविनाकृता न विद्या वित्तं नानवरतदानभोगहीनम् ॥ १४ ॥ तस्योवविलयविशेषकस्य राज्ञः पर्याप्ताननुगुणवर्णनेयतैष । संसारार्णवमथनस्य भव्यभानोर्यद्भेजे सकलजगद्गुरोर्गुरुत्वम् ॥ १५ ॥ तस्य श्रीरिव कमलालयादुपेता पातालादिव परिनिर्गताहिकन्या । पुष्पेषो रतिरिव लक्ष्मणेति जाया सर्वान्तःपुरपरमेश्वरी बभूव ॥ १६ ॥ सच्छाया विपुलमहातरोर्लतेव मेघानामिव पदवी सतारतारा । चापश्रीरिव वरवंशलब्धजन्मा या रेजे सुकविकथेव चारुवर्णा ॥ १७ ॥ लोलत्वं नयनयुगे न चित्तवृत्तौ मन्दत्वं गतिषु न सज्जनोपकारे । कार्कश्यं कुचयुगले न वाचि यस्या भङ्गोऽभूदलकचये न चापि शीले ॥१८॥ सौभाग्यं कचिदितरत्र रूपमात्रं कापि स्याद्विनयगुणोऽपरत्र शीलम् । यस्यां तत्समुदितमेव सर्वमासीत्प्रायेण प्रभवति तादृशी न सृष्टिः ॥ १९ ॥ सर्वेषामपि तमसां स्थितः परस्तात्तीर्थस्य क्षतरजसोऽष्टमस्य कर्ता । यद्गर्भे गुणनिधिरात्मनाधिशिश्ये कस्तस्या गुणगणनां विधातुमीशः ॥ २० ॥ तां क्षोणीमिव चतुरर्णवावसानामायातां तनुमनुकृत्य मानवीयाम् । प्राप्योर्वीपतिरखिलेन्द्रियार्थसारामात्मानं स कलयति स्म सार्वभौमम् ॥२१॥ व्यासक्तस्तदधरपल्लवे स राज्यश्रीचिन्तामपि शिथिलीचकार भूपः । प्रायेण स्थिरमतयोऽपि विप्रमोहं नीयन्ते मदनफलैरिवेन्द्रियार्थैः ॥ २२ ॥ निर्ममं विषयसुखाम्बुधावगाधे तं मन्दोद्यममवधार्य राजकार्ये । स्वातन्त्र्यं ययुरखिलानि मण्डलानि मन्दत्वं भवति न कस्य वाभिभूत्यै ॥ २३ ॥ व्युत्थानं सचिवमुखान्निशम्य राज्ञां राजेन्द्रो निजमभिनिन्द्य च प्रमादम् । निर्जेतुं स दश दिशोऽन्यदा प्रतस्थे सामन्तैः परिकरितः सहस्रसंख्यैः ॥ २४ ॥ प्राक्पूर्वी दिशमुपसृत्य धूतधन्वा कृत्वाथ खशरशरव्यमङ्गराजम् । कारुण्यात्प्रणतिपरे रराज राज्यं तत्सूनौ विदधदुपायनीकृते ॥ २५ ॥
9
१. अष्टमस्तीर्थकरः.