SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १५ सर्गः] चन्द्रप्रभचरितम्। तुरङ्गिणां पदातीनां रथिनां गजरोहिणाम् । यस्य येन समा कक्षा स तमाह्वास्त वीतभीः ॥ ४० ॥ युद्धमार्गविदो योद्धुमारभन्त महाभटाः । प्राणैरस्थास्नुभिः स्थास्नु यशश्चेतुमभीप्सवः ॥ ४१ ॥ खामिप्रसादमासीद्यो मुखरागः प्रतीच्छताम् । तेषामसूत्स एवारिशरजालं प्रतीच्छताम् ॥ ४२ ॥ निजेषुरचितस्फारमण्डपोत्सारितातपाः । तत्र नाज्ञासिषुर्योधाः प्रहरन्तः परिश्रमम् ।। ४३ ॥ खामिसंमानयोग्यं यद्यत्वसंभावनोचितम् । यच्चान्नायसमं तत्ते स्मारंस्मारं डुढौकिरे ॥ ४४ ॥ शस्त्रप्रहारैर्गुरुभिः समुदा येन यो जितः । तेनामर्षात्पुनः सोऽससमुदायेन योजितः ॥ ४५ ॥ कस्याप्यश्वगतस्येभकुम्भं निर्भिन्दतोऽसिना । ततः पतन्त्यभात्पुष्पवृष्टिवन्मौक्तिकावलिः ॥ ४६॥ योधाः शस्त्रक्षताः पेतुर्भूरितापा रणाशयाः । भूतैर्बुभुक्षितैयुद्धभूरिता पारणाशया ॥ ४७ ॥ भने चापे गुणे छिन्ने रिक्तीभूते च बाणधौ । कस्याप्यासीविषा दीर्घ दण्डादण्डि कचाकचि ॥ ४८ ॥ धीरधीरारिरुधिरैरुरुधाराधरैरैरम् । धरा धराधराधारा रुरुधेऽधोऽधराधरा ॥ ४९ ॥ ये तत्र जज्ञिरेऽस्राणां प्रगुञ्जन्निनदा नदाः । तेष्वासन्मूलनि नाः करिणां मकराः कराः ॥ ५० ॥ कश्चिदालोहनिर्ममैः प्रत्यङ्गं पूरितः शरै। बभावभ्यरि निष्कम्पः सप्ररोह इव द्रुमः ॥ ५१ ॥ .. १. धीरधीरा अतिधीरा निष्कम्पा अरयः शत्रवस्तेषां रुधिराणि तैरेवोरुधाराधरैहन्मेधैः अथवा गरिष्ठधारया पतमानैः । अरमतिशयेन । धराधराः त एवाधारोऽक्टम्भी यस्याः सा अधःप्रदेशे अधराधरा निम्ननिम्ना धरा भूमिः रुरुषे पूरिता.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy