________________
१५ सर्गः]
चन्द्रप्रमचरितम् । भीमं भासुरवासोभिः सुभीमं मणिकरणैः। मुकुटेन महासेनं सेनं मौक्तिकमालया ॥ १६ ॥ चूडारत्नेन चित्राङ्गं प्रालम्बेन परंतपम् । रत्नकण्ठिकया कण्ठं कुण्डलाभ्यां सुकुण्डलम् ॥ १७ ॥ अनर्घमणिना भीमरथं हारेण हारिणा । महीरथं खाभरणैश्चतुरः सञ्चकार सः ॥ १८ ॥ ( कुलकम् ) अन्योऽपि यस्य यो योग्यः स वाहस्तुरगो रथः । वारणो वा विशेषज्ञस्तत्सादकृत तं नृपः ॥ १९ ॥ सेना सेना यती बद्धराजिराजिसमुत्सुका । चक्रे चक्रेषुखड्गास्त्रसारा सारातिसाध्वसम् ॥ २० ॥ सज्जीकृतं महामात्रै रोपितास्त्रं पुरोधसा । वनकेलिमथारुह्य निरगादभिशत्रु सः ॥ २१ ॥ रथिना युवराजेन सोऽनुसने नराधिपः । ऐरावतसमारूढो रविणेव सुराधिपः ॥ २२ ॥ नगोत्तुङ्गं समारुह्य नागेन्द्र रणविग्रहम् । तमन्वगाद्भीमरथः प्रताप इव पूषणम् ॥ २३ ॥ परिज्वलन्महास्त्रौघं रथं सारथिसज्जितम् । मनोरथमिवास्थाय निर्जगाम महीरथः ॥ २४ ॥ परितः परिवत्रुस्तमन्येऽप्येत्य नराधिपाः । चतुरङ्गबलोपेताश्चतुरम्बुधिविश्रुताः ॥ २५ ॥ प्रयाणतूर्यनिर्घोषसंमिलत्सर्वसैनिकाः । सासीहहादिसंख्येव व्यक्तेयत्ता न वाहिनी ॥ २६ ॥ विसखान शिवा तस्य वामतः शिवशंसिनी । तामेव दिशमाश्रित्य ररास मृदु रासभः ॥ २७ ॥ भारद्वाजः कुतोऽप्येत्य परीयाय प्रदक्षिणम् । क्षीरिणं वृक्षमारुह्य ववाशे वल्गु वायसः ।। २८ ॥ ....