________________
११४
काव्यमाला।
भटानां भाविसङ्ग्रामभवदुत्साहशालिनाम् । मनांस्यानशिरे हषि पुलकोद्गमैः ॥ ४ ॥ हृष्यदङ्गतया सद्यः स्फुटत्पूर्वरणवणैः। वीरैर्वीररसाविष्टैः संनद्भुमुपचक्रमे ॥ ५॥ कश्चित्तनुच्छदं योग्यं समरे समरेखकम् । देहे हृष्यत्यपर्याप्तं नामुञ्चन्नामुचत्पुनः ॥ ६ ॥ तव संनहनं नाथ लघुभूतमिवाधुना । इत्यूचे खकरस्पर्शात्पुष्टाङ्गः कोऽपि कान्तया ॥ ७ ॥ शृङ्गारद्विगुणीभूतैरमाति पुलकैस्तनौ । संनाहेऽन्यस्य चतुरा क्षणमन्तर्दधे प्रिया ॥ ८ ॥ रिपुरोषारुणीभूतच्छविच्छुरितकण्टकैः । रेजे संध्याघनाकारैर्भीषितारिघटैटैः ॥ ९ ॥ भूरिभैरवधीराया रुष्टैः प्रतिगजश्रुतेः । भूरिभैरवधीरायाः समदानैः खपाणिना ॥ १० ॥ पुण्यैः कवचितस्यास्य किं कृत्यमपरं मया । इतीव नृपतेरङ्गे संनाहोऽनिष्ठयाविशत् ॥ ११ ॥ जयलक्ष्मीपरिष्वङ्गव्यवायेन ममामुना । किमित्यासीढ्युवेषस्य संनाहेनातिगौरवम् ॥ १२ ॥ तेजो मूर्तमिवात्मीयं सुदुर्भेदमरातिभिः । बभौ भीमरथो बिभ्रत्कवचं विकचाननः ॥ १३ ॥ अभूद्वैमरथेरङ्गे समरोत्कर्षशालिनः । द्वितीय इव संनाहो घनकण्टकितच्छवौ ॥ १४ ॥ दीनानाथकृतोत्सर्गः स जयश्रीसमुत्सुकान् । प्रसादैः पूजयामास सामन्तात्रणदीक्षितान् ॥ १५ ॥
१. बहुभयानकगभीरायाः. २ भूः इभैः अवधि ताडिता । इरायाः सुरायाः समानमदजलैः.