________________
CLAI
१५ सर्गः] चन्द्रप्रमचरितम् ।
क्षीरापदेशमगलत्प्रमदाश्रु नूनं
युक्तः परार्थघटने महतां प्रमोदः ॥ ६६ ॥ चन्द्राकारस्थलममलिनोत्तुङ्गडिण्डीरपिण्ड
श्वञ्चद्वाजिव्रजमविरतोद्भान्तकल्लोलमालः। सर्पन्मत्तद्विपमभिसरन्नकचक्रो जयेत्तं
स्कन्धावारं यदि कथमपि स्यादपारः पयोधिः ॥६७॥ इति तत्र गिरौ निविष्टसैन्यं चरवादवगम्य पद्मनाभम् । खबलेन समं समेत्य कोपात्पृथिवीपालनृपोऽन्तिके बभूव ॥ ६८॥ तयोर्द्वयोरपि नृपयोः प्रतापिनोविलोकितुं बलमिव जातकौतुका । समाययौ सपदि शशाङ्कभूषणा विभावरी विकसिततारकेक्षणा ॥६९॥
तस्यां रक्षां श्रुतपरबलः संविधाय खसैन्ये
किंचित्कृत्वा सह निजभटै विसङ्ग्रामचर्चाम् । श्रित्वा शय्यां शयनभवने भासुरां पद्मनाभ
स्तस्थौ धीरः समदवनितालिङ्गनाद्यैर्विनोदैः ॥ ७० ॥ भुवनभवनदीपीभूतबिम्बे नियत्या
गतिमुदयविरुद्धां नीयमाने मृगाङ्के । मुकुलिततनुतारालोचना लोचयन्ती
विरहमिव तदीयं सा विलिल्ये त्रियामा ॥ ७१॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये चतुर्दशः सर्गः।
पञ्चदशः सर्गः। द्वयेषामप्यथ प्रातः स्थावरेतरभूभृताम् । उदस्थात्कटकक्षोभी संनाहपटहध्वनिः ॥ १॥ तस्मिन्नम्बुदगम्भीरे दिगन्तरविसर्पिणि । प्रकम्पं भूरपि प्रापदास्तां रिपुपताकिनी ॥ २॥ . मदो मदोद्धताकारैर्दिकुञ्जरकुलैरपि ।
तत्यजे त्रस्तचेतोभिररिकीटेषु का कथा ॥ ३ ॥ चन्द्र० ११
.