________________
- ११२
काव्यमाला। वन्येभगण्डकषणाहितदानगन्धे
नीतस्तरौ नियमनाय करी नियन्त्रा। रोषाद्वभञ्ज निजतापनुदोऽस्य शाखा
न श्रेयसे खलु भवत्यपदेऽपि कोपः ॥ ६० ॥ आनीलनीरदनिभैः सुविशालवंशै
न गैः प्रवृत्तमदनिर्झरवारिपूरैः । रेजे समुन्नतमहीरुहमूलबद्धै
स्तैर्जङ्गमैरिव निजावयवैर्गिरीन्द्रः ॥ ६१ ॥ यत्सल्लकीकिसलयं रुचये रुचिज्ञा
प्रासान्तरेषु ददिरे खलु हस्तिपालाः। तत्प्रत्युताहितवनस्मृति वारणेन्द्रं
सावज्ञमेव कवलग्रहणे चकार ।। ६२ ।। उत्तीर्णभारलघवः परितो महोक्षाः ___ पीताम्भसः श्रमभिदा नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः
शान्त्यै भवत्युपकृतं क खलप्रियेषु ॥ ६३ ॥ छायासु यत्क्षितिरुहां तृणतोयतृप्तै
रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन
व्याजेन तैरलसनेत्रयुगैश्चचर्वे ॥ ६४ ॥ विच्छिन्नकर्णसुखकृन्निजकाकलीक
मश्रावि किंनरगणैः कटु कंदरस्थैः । भारावतारसमये रसितं मयानां
रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ॥ ६५ ॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवाल
जाले भृशायतशिरोधिभिरस्यमाने । १. उष्ट्राणाम्.