________________
१०४
काव्यमाला। बृहदलाबुकगौरववामनां वृतिमुपर्युपरि प्रसृतैः पपे। सतृषितैरिव गोकुलयोषितां विपुलकान्तिजलो नयनैर्नृपः ॥ ४३ ॥ समधिगम्य समस्तसमीहितामवनतैर्महतीं फलसंपदम् । क्षितिभृतः कलमैरवलोकितैः स्मृतिरजायत सज्जनगोचरा ॥ ४४ ॥ क्षणमुपास्य परां प्रियमागतं सरसि हंसवधूमवजानतीम् । समवलोक्य विवेद स भूपतिः सहजमेव पुरंध्रिषु कैतवम् ॥ ४५ ॥ शशिकराङ्कुरनिर्मलगून्बहिःकृतखलान्निजसीमपरिष्कृतान् । बुधनिभान्निगमान्स विलोकयन्नजनि हृष्टमना वसुधाधिपः ॥ ४६॥ अनुपदाय बिसं प्रणयार्पितं सरति चञ्चुधृतं परिकोपिताम् । अनुनयन्तमथो हृदयेश्वरीमभिननन्द स कोकमिलाधिपः ॥ ४७ ॥ जलदनादगभीरमथिध्वनिश्रवणजातसमुत्सुकमानसम् । नटदुदीक्ष्य कुलं भुजगद्विषामभिशशंस स गोकुलवासिताम् ॥ ४८ ।। कलमगोपकवंशरवाहितश्रुति कुरङ्गकुलं पृतनाचरैः । हतमुदीक्ष्य जनैरिति सोऽध्यगाद्विषयिणो नियतं विपदां पदम् ॥ ४९॥ सुगतिगामिनि भावितमानसे विमलपक्षतया परिभूषिते । न स शशाक निवर्तयितुं दृशौ खसदृशे नृपहंसकुले नृपः ॥ ५० ॥ फलितसस्यसमूहनिरन्तराखतिमनोरमलाङ्गलराजिषु । क्षितिषु गौरिव गौर्जगतीभुजश्चिरतरं विचचार निरङ्कुशा ॥ ५१ ।। जनमनःशयने शयितं मनोभवमिव प्रतिबोधयता कृतः । । समदहंसकुलेन कलध्वनिर्नृपतिनावहितश्रुति शुश्रुवे ॥ ५२ ।। परिमितैर्गमनैः कुथवाहिनीं पथिसु विश्रमयन्गजवाहिनीम् । जलधिधीरजलां जलवाहिनीं वसुमतीपतिराप स वाहिनीम् ॥ ५३ ।। विविधभङ्गतरङ्गशिरःस्थितैस्तुहिननिर्मलफेनकदम्बकैः । वसुमतीव विराजति या सरिद्धनघनाघनरुद्धमहीधरा ॥ ५४ ॥ समवगाढवतां वनदन्तिनां कटतटाद्गलितस्य मदाम्भसः । उपरि संचरतामलिनां कुलैः सतिलकाभरणेव विभाति या ॥ ५५ ॥