________________
१२ सर्गः ]
चन्द्रप्रभचरितम् ।
अविदितागतवारणभीभवत्पतनभग्नबृहद्दधिपात्रया । निववृते क्षणशोचितनाशया नृपपथात्किल बल्लवयोषिता ॥ ३० ॥ गुरुभरग्रह कुब्जितविग्रहैश्चिरतराञ्चलितैरपि चक्रिरे । कटकिनः प्रथमं कृतनिर्गमाः सपदि वैवधिकैरनुयायिनः ॥ ३१ ॥ नृपवधूजनयानवितान कैरलघुभिः कटकं निचितान्तरम् । तमवलोक्य जनैर्न स सस्मरे प्रचुरपोतचितः सरितांपतिः ॥ ३२ ॥ सरभसैर्नरनाथविनिर्गमे क्षितिभुजां प्रतिपालयतां बलैः । रुरुचिरे निचिताः पुरवीथयो गुरुतरङ्गचयैरिव निम्नगाः ॥ ३३ ॥ तुरगरोह कराग्रसमुत्पतत्तरलतुङ्गतुरंगतरङ्गया । बहुमुखैर्जलधेरिव वेलया क्षुभितया प्रसृतं नृपसेनया ॥ ३४ ॥ पटहजेन पटुध्वनिना मुहुर्मुहुरिवायता प्रतिनिःखनैः । क्षितिपतीश्वर निर्गमशंसिना सकलसैनिकसद्मसु बभ्रमे ॥ ३५ ॥ अधिकमेधितया मुदितैर्जनैः सुहृतदृष्टिमनाः पुरशोभया । क्षितिपतिः सहसैव सविस्मयो रथमलोकत शालतले निजम् ॥ ३६ ॥ कृतपरस्परवाजिविघट्टनानमितवारणरोहशिरोधरा ।
१०३
व्यधित तिर्यगुपाहितकेतना निरयणं पुरगोपुरतश्चमूः ॥ ३७ ॥ विधुतको मधुपायिनामिव खैर्विदधत्परिभाषणम् । वसुमतीदयितं परिरभ्य तं सुहृदिवासुखयत्परिखानिलः ॥ ३८ ॥ विकसिताम्बुरुहाणि सरोरुहाण्यकलुषाश्च पयोनिधियोषितः । पथि विलोकयतः स्पृहणीयया क्षितिभुजोऽजनि शारदयात्रया ॥ ३९ ॥ हृदयहृद्वयसो विमलाम्बराः पृथुसमुन्नतपाण्डुपयोधराः । नरवरेण पुनः पुनरादराद्ददृशिरे दयितासदृशो दिशः ॥ ४० ॥ रुचिररल्लकराजितविग्रहैर्विहितसंभ्रमगोष्ठमहत्तरैः ।
पथि पुरोदधिसर्पिरूपायनान्युपहितानि विलोक्य स पिप्रिये ॥ ४१ ॥ कुचभरादसहांशुकवारणे कलमगोपवधूमवलोकयन् । स्मितमुखः समचिन्तयदित्यसौ कचिदतीव गुणोऽप्यगुणायते ॥ ४२ ॥