________________
१०२
काव्यमाला |
खुरनिपातविदारितभूमिभिः प्रजविभिस्तुरगैर्विषमीकृते ।
पथि परिस्खलनेन समुच्छलच्चरणया चलितं रथकट्यया ॥ १७ ॥ न सहते करपातमयं नृपो विजयवानपरस्य महीतले । रविरितीव रथध्वजचीवरैरविरलैर्विदधेऽन्तरितं वपुः ॥ १८ ॥ नृपपराक्रमबीजविवप्सुभिरिव रथैर्यदकृष्यत भूतलम् । मदपयोभिरपूर्यत तन्मधुत्रतकुलाकुलगण्डतलैर्गजैः ॥ १९ ॥ चलितशैलचयेन गरीयसा बलभरेण निपीडितदेहया । बधिरिताखिलदिप्रथमण्डलध्वनिपदैरिव निःखनितं भुवा ॥ २० ॥ कतिपयानि न यावदयुः पदान्यनुचरै रभसेन विनिर्गताः । कतिपयैः पथि तावदुपेत्य तान्भटगणा नृपतीन्परिवत्रिरे ॥ २१ ॥ परिहितायसककमेचकं पिहितभूमि पदातिकदम्बकम् । नरपतेररुचच्छरणागतं तिमिरशत्रुभयादिव तामसम् ॥ २२ ॥ कृतसमुन्नतवंशपरिग्रहा गुणविशेषविभूषितविग्रहा । कुलवधूरिव मुष्टिगता मुदं व्यधित योधजनस्य धनुर्लता ॥ २३ ॥ घनघटासदृशीषु कृतासना गजवधूष्ववरोधपुरंभ्रयः । विपुलकान्तिपरिप्लुतविग्रहा विदधिरे श्रियमाचिररोचिषीम् ॥ २४ ॥ तदखिलं पुटभेदनमुद्भटैः स्फुटदिवाभवदात्त कुतूहलैः ।
न निरतैर्यदवेक्षितुमीश्वरं दशतयीष्वपि दिक्षु जनैर्ममे ॥ २५ ॥ परिचिते बहुशोऽप्यवनीश्वरे कमलिनी कुसुमैरिव भास्करे । 'विचकसे नयनैः पुरयोषितां न रमणीयमपोहति कौतुकम् ॥ २६ ॥ 'जनरवात्रसतो निपतन्त्यधस्तरलवेगसरादवरोधिका । युवजनं विदधे गलदम्बरप्रकटितावयवा सुकुतूहलम् ॥ २७ ॥ कृतकटुखरमायतकंधरं सपदि भाण्डमपास्य पलायितः । करिभयात्कटके समपूपुषन्नट इवाधिक हास्यरसं मैयः ॥ २८ ॥ पथि वृषैः करिसूत्कृतिविद्रुमैर्भृदितधूर्द्वितये शकटे सति । विपुललाभकृते वणिजोsटतो घृतघटैर्मनसा सह पुस्फुटे ॥ २९ ॥
१. उष्ट्रः.