________________
१३ सर्गः]
चन्द्रप्रमचरितम् । . प्रसृतया बभतुर्वरकुण्डलग्रथितवारिजरागमणित्विषा । सरसगैरिकपङ्कपरिष्कृतौ करिकराविव भूमिभुजो भुजौ ॥ ४ ॥ मुकुटरत्नचयेन परस्परव्यतिकरोल्लसितामलरोचिषा । जलदकाल इवेन्द्रधनुःश्रियं प्रविततान महीपतिरम्बरे ॥ ५॥ परिभवत्यरिनिर्जयनिर्गतो निखिलमाण्डलिकाननतानयम् । इति भयेन तदीयभुजद्वयं शशिरवी इव भेजतुरङ्गदे ॥ ६ ॥ शिखिगलाकृतिना रशनाश्मनां रुचिचयेन निरन्तरपूरितम् । क्षितिपतेरखिलां यमुनाह्रदश्रियमलुम्पत नाभिसरोरुहम् ॥ ७ ॥ गुरुमताभिरतामलमानसं विहितदिव्यशरीरपरिग्रहम् । त्रिदिवनाथमिव त्रिदिवौकसस्तमवनीपतयो नृपमन्वयुः ॥ ८॥ तुरगवारकठोरकरद्वयीधृतकशागुणपीडितकंधरैः । पथि भयापसरच्छिशुसंकुले स्खलितवेगमगामि तुरंगमैः ॥ ९ ॥ तुरगियत्ननिरुद्धमहाजवैर्हरिभिरु पतितै लदोन्मुखे । गगननीरनिधिनिखिलस्तदा समजनीव तरङ्गितविग्रहः ॥ १० ॥ चलितवद्भिरजीयत वाजिभिस्त्वरितमभ्यधिकेन निजौजसा । कृतपदैनिखिलेऽपि महीतले यदनिलः किमिवात्र महाद्भुतम् ॥ ११ ॥ निरवधि प्रसृतैर्वसुधातले नृपबलैर्महिमा मम खण्डितः । इति नभस्त्रपयेव तिरोभवद्रजसि वाजिखुराहतिबंहिते ॥ १२ ॥ सतडिदाभरणाः प्रवितन्वते धृतजला जलदा दिवि यां श्रियम् । . स्फुरितरत्नकुथैरलिकोमलैः प्रचलितैर्भुवि सा विदधे गजैः ॥ १३ ॥ पथिषु हस्तिपकाहतडिण्डिमध्वनितनष्टजनेषु यदृच्छया । कुपितधीरविवर्तितदृष्टिभिः पदमदीयत मत्तमतङ्गजैः ।। १४ ॥ नृपतिरेकक एव कुलं द्विषां क्षपयितुं क्षम एष किमत्र वः । जगुरितीव रवैर्बत दन्तिनां श्रितमदाकटा मधुलिङ्गणाः ॥ १५ ॥ यमवनीशगमावसरे मदं जगृहिरे करिणो जयशंसिनः । रजसि तेन तुरङ्गखुरोत्थिते प्रशमिते ददृशुः पदवीं जनाः ॥ १६ ॥
चन्द्र० १०