________________
१००
काव्यमाला। प्रविचेष्टितमेवमेव चेदुभयोरप्यविवेकपूर्वकम् । पशुमानुषयोस्तदा भवेत्किमृते शृङ्गयुगाद्विभेदकम् ॥ १०३ ॥ युवराण्मतमस्तु किं तु नः प्रतिपाल्यः समयः कियानपि । विदितारिबलाः प्रयुञ्जते ननु षाड्गुण्यमुदारबुद्धयः ।। १०४ ॥ सकलं प्रविगाह्यतं चरै रिपुसर्वस्वमुपेत्य सर्वतः। खपरप्रविभागवेदने खयमस्तूद्यतधीर्भवानपि ॥ १०५ ॥ तरसोभयवेतनैर्वशीक्रियतां भृत्यगणो यथोचितम् । कृतकग्रथितैश्च शासनैः परिदृष्या रिपुसामवायिकाः ॥ १०६ ॥ विनिवेद्यमिदं प्रयोजनं सकलं भीमरथस्य रंहसा । स न तिष्ठति लेखदर्शनात्समदुःखोऽस्ति सुहृन्न तादृशः ॥ १०७॥ तनयः स तनोति यः कुलं स सुहृयो व्यसनेऽनुवर्तते । स नृपः परिपाति यः प्रजां स कविर्यस्य वचो न नीरसम् १०८ तमनन्यसमानतेजसं समनुप्राप्य सहायमूर्जितम् । सवितेव घनात्यये भवान्भविता भासुरधामदुःसहः ॥ १०९ ॥ करिणं प्रदिशामि निश्चितं समरं वाहनि मासपूरणे ।
भवतेऽहमिति प्रहीयतां रिपुदूतो वचनैर्द्वयाश्रयैः ॥ ११० ॥ हितमिति वचनानि मन्त्रिमुख्यादिति सकलाभिमतान्यसौ निशम्य । अनलसमतिरर्थतोऽनुतस्थौ गुरुवचनं हृदयैषिणामलङ्घयम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वादशः सर्गः ।
त्रयोदशः सर्गः। अथ स विक्रमवान्नयभूषणो मिलितभीमरथप्रमुखः प्रभुः । निरगमत्प्रतिशत्रु जिगीषया प्रशमितप्रकृतिव्यसनो नृपः ॥ १॥ सकललोकमनोरममुल्लसत्कुमुदपाण्डु विभावितदिङ्मुखम् । पथि रराज धृतं धरणीपतेः खयशसा सममातपवारणम् ॥ २ ॥ जलदवीथिविशालमुरः प्रभोः पृथुलहारलतामणिभिर्बभौ । मुखसरोजमुपासितुमागतैरुडुगणैरिव जातशशिभ्रमैः ॥ ३ ॥
५