________________
१२ सर्गः] चन्द्रप्रमचरितम् ।
अभिवाञ्छति पादसङ्गमप्यखिलः कर्तुमतिग्मदीधितेः । तपनं न दृशापि वीक्षितुं महिमा नन्वखिलः स तेजसः ॥ ९० ॥ कृपणस्य परानुवर्तनैः सततार्तस्य धिगस्तु जीवितम् । अनुनीय परं निजोचितैललितैर्जीवति किं न मण्डलः ॥ ९१ ॥ अनुगच्छति यः शठं प्रियैः प्रविहायोचितमात्मसौष्ठवम् । स निजां विवृणोत्यसारतामपवृष्टिर्निनदन्निवाम्बुदः ॥ ९२ ॥ मृत एव विलीन एव वा वरमप्राप्तभवः पुरैव च । न पुमान्परिभूतिजीवितः सहते कः खलु मानखण्डनम् ॥ ९३ ।। रहितः सहजेन तेजसा पशुवत्केन बलान्न वाह्यते । महतामत एव वल्लभा ननु वृत्तिर्मुगराजसेविता ॥ ९४ ॥ अवगाच्युतनीति मा भवानिदमेकान्तत एव मद्वचः । अहमीश यतो ब्रवीम्यदः सकलं कालबलव्यपेक्षया ॥ ९५ ॥ खयमेव न वेत्ति किं प्रभुः स यथा क्षीणबलो बलाहवे । ससुहृद्व्यसनश्च वर्तते विगृहीतं कुलजैर्महाबलैः ॥ ९६ ॥ अभियातुमतः प्रयुज्यते भवतो वृद्धिमतः क्षये स्थितः । प्रभवेत्खलु भाग्यसंपदा सहितः स्थानगतोऽप्यरातिषु ॥ ९७ ॥ अवधार्य सुवर्णनाभजामिति वाणी करणीयपेशलाम् । भवभूतिरुदाहरद्वचः प्रभुणा स्निग्धदृशावलोकितः ॥ ९८ ॥ निखिले विधिवद्विवेचिते युवराजेन विधेयवस्तुनि । अपरोऽत्र यदाह सोऽखिलः प्रतिशब्दः शुकशारिकादिवत् ॥९९॥ विशदामसमुज्झितान्वयां नयसारामविहीनसौष्ठवाम् । गिरमेष कदाचिदीदृशीमभिदध्यादथवा बृहस्पतिः ॥ १० ॥ न तथाप्यनुवर्तनामहं सहसास्य प्रविधातुमुत्सहे। न विमुह्यतु मद्विधः कथं गहने कृत्यविधौ विधेरपि ॥ १०१॥ सुविचार्य करोति बुद्धिमानथवा नारभते प्रयोजनम् । रभसात्करणं हि कर्मणां पशुधर्मः स कथं नु मानुषे ॥ १०२ ।।
१. कुक्करः.