________________
काव्यमाला।
त्वमतः प्रथमो विवेकिनां सहसा दण्डमरौ प्रयुङ्व मा। स हि शाम्यति साममात्रतः पृथिवीपाल नृपोऽभिमानवान् ॥७७॥ अभिमानधनो हि विक्रियां व्रजति प्रत्युत दण्डदर्शनैः । प्रशमं न तु याति जातुचित्परिनिर्वाति किमग्निरमिना ॥ ७८ ।। प्रथमं द्विषि साम बुद्धिमानथ भेदादि युनक्ति सिद्धये । गुरुदण्डनिपीडना रिपोरियमन्त्या हि विवेकिनां क्रिया ॥ ७९ ॥ प्रभुदोषशतं प्रमार्जितं पुरुषस्यैकमपि प्रियं वचः । पयसैव जनस्य वल्लभा ननु वज्रादिमुचः पयोमुचः ॥ ८० ॥ धनहानिरुपप्रदानतो बलहानिर्नियमेन दण्डतः । अयशः कपटीति भेदतो बहुभद्रं नहि सामतः परम् ॥ ८१ ।। प्रणिगद्य नयान्वितं वचः पुरुभूताविति मौनमास्थिते । युवराडथ पौरुषाश्रयामिति सासूयमुदाहरद्गिरम् ॥ ८२ ।। पठितव्यमिहान्यथा स्थितं करणीयप्रतिपत्तिरन्यथा । नहि पृष्ठभरे नियुज्यते हलसंभावितयोग्यतः पशुः ॥ ८३ ॥ अनिरूपितकृत्ययानया हियते कः खलु कूर्चशोभया। ननु बीजपदे व्यवस्थितं फलमन्यः पदवाक्यडम्बरः ।। ८४ ॥ परवृद्धिनिबद्धमत्सरे विफलद्वेषिणि साम कीदृशम् । सुतरां स भवेत्खरः प्रियैरविभाव्यप्रकृतिर्हि दुर्जनः ॥ ८५ ॥ विषये खलु संनियोजितः सदुपायः फलवान्न चान्यथा । नहि वज्रधरायुधोचिते क्रमते ग्रावणि लौहमायुधम् ।। ८६ ॥ मदभाजि परापमानताप्रवणे दण्डमुशन्ति सूरयः । उपयाति सुखेन वश्यतां किमनवानपनाथनासिकः ॥ ८७ ॥ पुरुषस्तपनीयवद्गुरुर्न पर्यावदसौ निगृह्यते । तुलितस्तु स एव तत्क्षणात्तृणराशौ निपतत्यसंशयम् ॥ ८८ ॥ शिवहेतुरुदाहृता क्षमा वतिनामेव न मेदिनीभुजाम् । बहुना ननु विप्रकृष्यते पदवी संसृतिमुक्तिधामणोः ॥ ८९ ॥