________________
चन्द
१२ सर्गः]
चन्द्रप्रभचरितम् । परुषं मम शृण्वतस्तथा सहसा क्षोभमुपव्रजन्मनः । किममन्त्रि गृहं तदीयमित्यपवादेन जनस्य वारितम् ॥ ६४ ॥ भजते गदवन्न विक्रियामुदयन्नेव रिपुश्चिकित्सितः । इति वक्रमतिः स कैतवाद्रुतमस्मानभिहन्तुमीहते ॥ ६५ ॥ अत एव च दण्डवर्जितः सदुपायोऽस्मि न तस्य सिद्धये । वदतास्मि स चेप्रकृष्यते मतिरासर्वविदो हि देहिनाम् ॥ ६६ ॥ अभिधाय गिरं स सौष्ठवामिति तूष्णीं नृपताववस्थिते । न्यगदीदिति नीतिमद्वचः पुरुभूतिः पुरुभूतिकारणम् ॥ ६७ ॥ अभवाम भवत्प्रसादतो वयमृद्धेश्च मतेश्व भाजनम् । अत एव भुवि त्वमेव नो गुरुरीशः सुहृदेकबान्धवः ॥ ६८ ॥ तव कार्यविदोऽभिजल्पितुं पुरतो दृष्टपरम्परस्य च । नयशास्त्रलवैकलिप्तधीः परिजिहेति कथं न मादृशः ॥ ६९ ॥ नहि कार्यविपश्चितः पुरो निगदनराजति शास्त्रपण्डितः । सकलं पुरुषस्य लक्षणं ननु संदिग्धमलक्षवेदिनः ॥ ७० ॥ अधिकारपदे स्थितैस्तथाप्यनुशिष्यः प्रभुरात्मशक्तितः । तुषराशिकणक्रमाद्भवेदपि बालाद्विरलं सुभाषितम् ॥ ७१ ॥ पुरुषेण जिगीषुणा सदाप्यवलम्ब्यौ नयविक्रमद्रुमौ । नहि तावपहाय विद्यते फलसिद्धेरपरं निबन्धनम् ॥ ७२ ॥ नयविक्रमयोर्नयो बली नयहीनस्य वृथा पराक्रमः । प्रविदारितमत्तकुञ्जरः शबरेणापि निहन्यते हरिः ॥ ७३ ॥ बलवानपि जायते रिपुः सुखसाध्यः खलु नीतिवर्तिनाम् । मदमन्थरमप्युपायतो ननु बध्नन्ति गजं वनेचराः ॥ ७४ ॥ नयमार्गममुञ्चतः खयं विघटेतापि यदि प्रयोजनम् । पुरुषस्य न तत्र दूषणं स समस्तोऽपि विधेः पराभवः ॥ ७५ ॥ नयशास्त्रनिदर्शितेन यः सततं संचरते न वर्त्मना । शिशुवत्स कुबुद्धिरुल्मुकं खयमाकर्षति कृच्छ्रमात्मनः ॥ ७६ ॥ १. अमर्मज्ञस्य.