________________
९४
कात्र्यमाला |
इति भाषिण एव भारतीं रिपुदूतस्य सगर्वमाक्षिपन् । नरनाथदृशा कटाक्षितो युवराजो गिरमित्युदाहरत् ॥ २५ ॥ विनयप्रशमैकभूषणं परमन्यायसमर्थनोद्यतम् । प्रविहाय भवन्तमीदृशं वचनं वक्तुमुपक्रमेत कः ॥ २६ ॥ सचिवैरधुना भवद्विधैः परमेधोद्यमयोग्यतान्वितैः । सहितस्य कथं भवेत्प्रभोस्तव भूतिः प्रचुरा न मन्दिरे ॥ २७ ॥ विनयै कर तिर्महागुणः सकलेऽस्मिन्भुवने स गण्यते । नृपतिः प्रविनिन्दितं सतामुचितं तस्य विधातुमीदृशम् ॥ २८ ॥ यदि भाग्यवशेन वारणो गृहमस्माकमयं व्यगाहत । इयतैव किमक्षमा प्रभोः परवृद्धिष्वसतां हि मत्सरः ॥ २९ ॥ इह तावददातुमिच्छतां निजमस्माकमयं किलाक्रमः । परवस्तु जिगीषतां पुनर्भवतामेष किमुच्यते क्रमः ॥ ३० ॥ वचनं क्व खलूपयुज्यते प्रभुरस्मि क्रमतोऽहमित्यदः । ननु खड्गबलेन भुज्यते वसुधा न क्रमसंप्रकाशनैः ॥ ३१ ॥ करिणीपतिरन्यदेव वा कृतपुण्यं समुपैति वस्तु यत् । बलिना तदपास्य ते बलान्नहि लोके क्वचिदीदृशः क्रमः ॥ ३२ ॥ अथ सप्रणयेन याचते करिणीनाथमनाथवत्सलः । इति ते विनिवेदितं मयेत्यभिधत्ते भयदर्शि किं वचः ॥ ३३ ॥ किमु तस्य न सन्ति वारणा बहवोऽन्ये परपक्षवारणाः । अमुना स पदेन मन्दधीर्षुवमस्मानभियोक्तुमिच्छति ॥ ३४ ॥ बलवानहमित्यहंक्रिया नहि सर्वत्र भवेत्प्रशान्तये । अधिकक्रमतैव मृत्यवे ननु सिंहस्य घनं लिलङ्घिषोः ॥ ३५ ॥ बलगर्वितयैव निष्फलं प्रविधित्सुर्महतामतिक्रमम् । स्वयमेव खलः स भोक्ष्यते कटुनो यन्मधुरस्य चान्तरम् ॥ ३६ ॥ शयितस्य हरेः प्रबोधनामितिकुर्वन्तमुपेत्य मत्प्रभुः । सहसैव हिनस्ति किं न तं यदि न स्यात्क्षमया निवारितः ॥ ३७ ॥