________________
१२ सर्गः] चन्द्रप्रभचरितम् ।
९३ करिणो मदमूढचेतसः परिपश्यन्खयमेव बन्धनम् । भजते मदवृत्तिमात्मवान्क इवानात्महितप्रवर्तिनीम् ॥ १२ ॥ मदमूढमतिर्हिताहितं न हि जात्यन्ध इवावलोकते । परिपश्यति सोऽथवा धिया न मदान्धस्तु धिया न चक्षुषा ॥१३॥ षडमी रिपवः शरीरजा नयविद्भिर्गदिता मदादयः । निजचेतसि यः पुरैव तान्नृपतिः शास्ति स शास्ति मेदिनीम् ॥१४॥ क्षमते निजमेव रक्षितुं रिपुषडर्गहतं मनो न यः । परिभूतिभयादिवात्मनस्तमपास्यापसरन्ति संपदः ॥ १५ ॥ शठता भवतोऽङ्कुशक्रिया द्विरदेनेव मयावधीरिता। . चिरकालमियं त्वयाधुना विहितो योऽपनयः स दुःसहः ॥ १६ ॥ वनकेलिरिति द्विपाधिपः स्वयमागत्य तवाविशत्पुरम् । स धृतो भवतेति सत्वरैर्मम निश्चित्य चरैर्निवेदितम् ॥ १७ ॥ खयमेव किल प्रहेप्यसि द्विरदं तं ननु नष्टवस्तु मे । स पुनर्भवतात्मसात्कृतो मदपेक्षारहितेन वारणः ॥ १८ ॥ इति ते विनिवेदितं मया कुरु जानासि यदात्मशान्तये । हितमज्ञजनो हि शिष्यते न भवानीतिसमुद्रपारगः ॥ १९ ॥ तदवेत्य वचः प्रभोरिदं भव नम्रोऽर्पय तं मतङ्गजम् । न भवन्ति हि जातुचिन्नदा जलधौ तिष्ठति रत्नभाजनम् ॥ २० ॥ अपरानपि यच्छति द्विपानमुनैकेन विभुः प्रसादितः । परिकुप्यति चेत्स दारुणो न तवायं भविता न चापरे ॥ २१ ॥ प्रविहाय जिगीषुतामिमां भव गत्वा प्रभुपादवत्सलः। . अधिकं तव लाभमिच्छतो ननु तन्मूलमपि प्रणश्यति ॥ २२ ॥ क्षमते विनयातिलङ्घनं स यथा ते गदितास्मि ते तथा । ननु तत्र भवत्यसंशयं मम वाक्येन पयोऽपि गोरसः ॥ २३ ॥ हितमिच्छसि चेदकैतवां कुरु मद्वाचमथ प्रियप्रियः। रहसि व्रज तिष्ठ भाषयञ्जय जीवेति गिरः खयोषितः ॥ २४ ॥