________________
काव्यमाला। प्राविक्षत्क्षितिपो महेन महता चञ्चत्पताकं पुरं
___ शृण्वन्पौरजनैः प्रहृष्टहृदयैरुद्गीयमानं यशः ।। ९२ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्य एकादशः सर्गः ।
द्वादशः सर्गः। अथ कश्चिदुपेत्य शासनान्निजभर्तुर्विदितः सभागतम् । तमिलाधिपतिं कुशाग्रधीरिदमूचे वचनं वचोहरः ॥ १ ॥ रविणेव निजेन तेजसा कठिनांस्तापयता महीभृतः । विहिताः सह मित्रबान्धवै रिपवो येन महापदाश्रिताः ॥ २॥ परया प्रभुशक्तिसंपदा परिरक्षन्सकलां वसुंधराम् । नयति प्रथितं यथार्थतां पृथिवीपाल इति खनाम यः ॥ ३ ॥ नयविक्रमशक्तिशोभितो मतिमान्यो द्वितयेन मानदः । प्रणतेषु ददातिनाभवद्दयतिना तद्विपरीतवृत्तिषु ॥ ४ ॥ परिरभ्य दृढं स मत्प्रभुर्मयि संक्रामितवाक्यपद्धतिः । वदतीति भवन्तमक्षतप्रणयं दूतमुखा हि पार्थिवाः ॥ ५॥ महतामतिदूरवार्तनोऽप्यनुरागं जनयन्ति ते गुणाः । शरदभ्रनिभा गभस्तयः कुमुदानामिव कौमुदीपतेः ॥ ६ ॥ तव कीर्तिभिरेव सर्वदिग्वितताभिर्विनयैकवृत्तिता । सुमनोभिरिवानुमीयते फलसंपन्महती महातरोः ॥ ७ ॥ विधिना द्रवरूपताम्बुधेर्विहिता मूलत एव शान्तये । तव धैर्यजितेन लजया द्रवता नाभिभवो यदीक्षितः ॥ ८ ॥ विवृणोति मनोगतामियं नयवृत्तिर्भवतः सुशीलताम् । अनुकूलतया प्रकाशते निजनेतुः करिणो हि भद्रता ॥ ९ ॥ गुणवानपि स त्वमीदृशो मदनिश्चेतनधीरिवेक्ष्यसे । कियतापि पुरातनं क्रमं यदतिक्रम्य विचेष्टसेऽन्यथा ॥ १० ॥ प्रणमन्ति मदन्वयोद्भवं तव वंश्या इति पूर्वजस्थितिः । करिणेव मदस्रतार्गला भवता सा सकलापि लजिता ॥ ११ ॥