SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] . चन्द्रप्रमचरितम् । अभियुज्य निहन्ति यो रिपूनभियुक्तः स पुनर्विशेषतः । ज्वलितुं खयमुत्सुकः शिखी सुतरां मारुतसंप्रधुक्षितः ॥ ३८ ॥ क्षयवान्विजिगीष्यते परैर्व्यसनी दैवविवर्जितोऽथवा । कलिता वद तत्र के वयं प्रसभं त्वत्प्रभुणा जिगीषता ॥ ३९ ॥ भवति प्रियमिष्टसाधकं महति क्षुद्रजने हठक्रिया । इति किं न स वेत्ति मूढधीरथवा को विभवैः सचेतनः ॥ ४० ॥ न भवान्किमवैति यद्दलात्कुरुते राज्यमसावकण्टकम् । प्रहरन्ति न सांख्यपूरुषं ननु तं मत्प्रभुशङ्कयारयः ॥ ४१ ॥ इति तस्य निशम्य भारती रिपुदूतः परिवृद्धमत्सरः । न्यगदीद्गुरुगर्वगद्दामभिसर्पन्गिरमग्रतोऽग्रतः ॥ ४२ ॥ खहितं खधियैव बुध्यते पुरुषः सत्युदये सुकर्मणः । अविधेयविधिर्न बुध्यते स्वधिया नापि परेण बोधितः । न निमित्तमिहोपदेशको न च शास्त्रं न च साधुसंगतिः । कुशलाकुशला च जायते धिषणा दैववशेन देहिनाम् ॥ ४४ ॥ अवभाति निजं स पौरुषं कथयन्निवहते तथैव यः । निजविक्रमगर्विणो रणे हसनीया बहवो मयेक्षिताः ॥ ४५ ॥ प्रविचिन्त्यमुदेतुमिच्छता प्रथमं वस्य परस्य चान्तरम् । परिमृश्य कृतो न हि क्रमः शरभस्येव विपाकदारुणः ॥ ४६ ॥ अधमेन समेन वाधिकामधिगच्छन्निजभाग्यसंपदम् । मतिमान्विदधातु विग्रहं बलवद्भिः सह कोऽस्य विग्रहः ॥ ४७ ।। बहुभिः परिवारितोऽखिलं हतबुद्धिर्जितमेव पश्यति । अवगच्छति नेदमुद्गते गुरुकार्ये मम नात्र कश्चन ॥ ४८ ।। खयमैक्षि यतो नदीरयात्पतनं स्तब्धवतस्तटीतरोः । अभवत्खलु तेन संमतः प्रणिपातो विदुषां बलाधिके ॥ ४९ ॥ बहुसत्त्वयुतौ स्थिराशयावविलक्यौ यदि नाम तावुभौ । महदेव तथापि दूरतो नदभर्तुश्च नदस्य चान्तरम् ॥ ५० ॥ १. अकिंचित्करम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy