________________
८२ . सुलभ-चरित्राणि मेवमस्तु ।
एवमुक्त्वा मन्त्री देशान्तरे गतः, एकदा रात्रावटव्यां गच्छतस्तस्य कोऽपि राक्षसो मिलितः, मन्त्रिणा तस्मिन् दृष्टमात्रे पूत्कारः कृतः, मा मा इत्युक्ते राक्षसेनोक्तं मा मेति मा वद, अद्याहं सप्तदिनबुभुक्षितस्त्वां भक्षयिष्यामि, मन्त्रिणोक्तमधुना तावन्ममोपरि त्वं प्रसादं कुरु, यत्सम्प्रति मम कार्यमस्ति, अहं कार्यार्थमग्रे गच्छन्नस्मि । तत्कृत्वा पश्चाद्वलमानस्तव क्षुधोपशमं करिष्यामि, इत्युक्ते पुण्यप्रभावाद्राक्षसेन स मन्त्री मुक्तः, अथाग्रे गच्छता तेन कस्यचिन्नगरस्यासन्ने वाटिकायां श्रीऋषभदेवप्रासादो दृष्टः, तत्र गत्वाऽतिहृष्टः सन् स स्वहृदयोद्भूतभावेन वीतरागस्तुतिं पठति, यथा
अमोघा ९ वासरे विद्युदमोघं निशि गर्जितम् । अमोघं साधुवचन-ममोघं देवदर्शनम् ॥९॥ न यान्ति दास्यं न दरिद्रभावं न प्रेष्यतां नैव च हीनयोनिम् । न चापि वैकल्यमथेन्द्रियाणां ये कारयन्त्यत्र जिनेन्द्रपूजाम् ॥१०॥ धन्यानां ते नरा धन्या, ये जिनेन्द्रमुखाम्बुजम् । निर्विकारि मनोहारि, पश्यन्ति दिवसोदये ॥११॥
इत्यादि तत्स्तुत्या मुदितः प्रतिमाऽऽरक्षककपर्दीयक्षः प्रत्यक्षो जातः, इति श्रीजिनभक्तिसंतुष्टेन तेन कपर्दियक्षेण बहिर्गत्वा तस्य कामघटः समर्पितः, मन्त्रिणोक्तं भो यक्ष ! अहमेनं घटं कथं गृह्णामि ? कथं वा स्थापयामि ? अनेन समीपस्थेन च पुरुषस्य लज्जा स्यात् । ततो देवेनोक्तमनुत्पाटित एवायं घटोऽदृष्टः सन् तव पृष्ठ आगमिष्यति । ततो मन्त्रिणा मानितम्, ततः स मन्त्री कृतकृत्यः सन् तं कामकुम्भं लात्वा स्वगृहं प्रति चलितः ।
अथ पश्चाद्वलमानः स तस्यामेवाटव्यां समागतः, तदा राक्षसोऽपि समायातः, तेन राक्षसेनोक्तमथ त्वं स्वं वचः पालय । मन्त्रिणोक्तं पालयिष्यामि, परं किमनेन मेऽशुचिना शरीरेण भक्षितेन ? यतः