________________
श्रीकामकुम्भकथा • ८३ रसासृग्मांसमेदास्थि-मज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां, रोमत्वक्स्नायुभिः सह ॥१२॥ अमेध्यपूर्णे° कृमिजालसङ्कले स्वभावदुर्गन्धअशौचनिन्हवे । कलेवरे मूत्रपुरीषभाजने,लषन्ति मूढा विरमन्ति पण्डिताः ॥१३॥
पुनर्मन्त्रिणोक्तं हे राक्षस मम शरीरेण तव कार्यम् ? वा सरसरसवत्या११ तव कार्यम् ? तेनोक्तं तर्हि सरसां रसवतीं देहि ! तदा तेन मन्त्रिणा कामघटप्रभावेण यथेष्टां रसवती तस्मै दत्त्वा तस्य दिव्याहारो भोजितः, ततः संतुष्टेन राक्षसेनोक्तमेवंविधा रसवती त्वया कथं दत्ता ? सधर्मेणाऽसत्यपापभीरूणा१२ च तेन मन्त्रिणा सत्मेवोक्तं । यत्कामघटप्रभावेण, ततो राक्षसेन स कामघटो याचितः, तदा मन्त्रिणोक्तमेवंविधं कामघटमहं कथं तवाऽर्पयामि ? राक्षसेनोक्तं यदि त्वमर्पयियसि तदाऽहमतः परं हिंसां न करिष्यामि, तव च ततः पुण्यं भविष्यति, अहमपि च तव सकलकार्यकरं रिपुशस्त्रनिवारकं कथित-कार्यकारकं देवताधिष्ठितं च दण्डमर्पयिष्यामि, अतस्त्वं मे कामघट समर्पय मन्त्रिणोक्तमहं समर्पयामि, तथापि तवाऽधर्मेण स न स्थास्याति सर्वथा, राक्षसेनोक्तमहं सर्वं प्रयत्नेन स्थापयिष्यामि इत्युक्ते मन्त्रि दण्डप्रभावं ज्ञात्वा, घटं च तस्मै अर्पयित्वा दण्डं च गृहीत्वाऽग्रतश्चचाल । तस्य मन्त्रिणो गच्छतो द्वितीयदिने १३बुभुक्षा लग्ना, तदा तेन दण्डश्चालापितो, यत्त्वं भोजनं दास्यसि ? तेनोक्तं न हि भोजनदाने मम सामर्थ्यम्, आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी, ज्ञानं मन्दकरी तपः क्षयकरी धर्मस्य निर्मूलनी । पुत्रभ्रातृकलत्रभेदनकरी १४लज्जाकुलच्छेदिनी, सा मां पीडयति सर्वदोषजननी प्राणापहारी क्षुधा ॥१४॥
दण्डेनोक्तम् अन्यत्किमपि कार्यं मम कथय, तत्करिष्यामि । तेनोक्तं तर्हि कामघटमानय । तदा स आनेष्यामीत्युक्त्वाऽऽकाशमार्गेण चचाल । गतश्च