________________
८४ • सुलभ-चरित्राणि स तत्र यत्र स राक्षस आसीत्, ततस्तं कुट्टयित्वा द्वारं भङक्त्वा कामघटं च गृहीत्वा स मन्त्रिसमीपे समागतः । मन्त्रिणाथ स कामघट आलापितो यत्त्वं तत्र किं समाधिना स्थितः ? घटेनोक्तं क्व मे समाधिः ? यतस्त्वं मां यस्य कस्यऽप्यर्मिणोऽर्पयसि मम तु धर्मवतामेव समीपे समाधिर्नान्यत्र । ततस्तेन मन्त्रिणे भोजनं दत्तम् । ततश्च तद्द्वयं लात्वा स मन्त्र्यग्रतश्चचाल । क्रमेण स कस्यापि ग्रामस्य समीपे समागतः, तत्र तेन रैवताचलशत्रुञ्जयाख्यतीर्थद्वययात्रां कृत्वा पश्चाद्वलमानः कश्चित्सङ्घः समागतो दृष्टः, सङ्घ दृष्ट्वा मन्त्री त्वतीवहष्टः, यतः
यात्रार्थं भोजनं येषां दानार्थं च धनार्जनम् । . धर्मार्थं जीवितं येषां ते नराः स्वर्गगामिनः ॥१५॥ विवेकः सह सम्पत्या, विनयो विद्यया सह। प्रभुत्वं च श्रियोपेतं, चिह्नमेतन्महात्मनाम् ॥१६॥ स्पृष्ट्व शत्रुञ्जयं तीर्थं नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ॥१७॥
इति विचार्य मन्त्रिणा सङ्घो भोजनाय निमन्त्रितः, तदा सङ्घन तमेकाकिनं दुःखितं च दृष्ट्वा रन्धनाय प्रारब्धम्, ततो मन्त्रिणा जलघटं गृहीत्वा १५सङ्घमध्यस्थचूल्हकेषु वारि क्षिप्तम्, कथितं चात्र केनापि न रन्धनीयं तथाविधं तमसदृशं दृष्ट्वा व्याकुलीभूतः सङ्घपतिश्चिन्तयति, यदद्याऽस्य भोजनं तु दूरेऽस्तु, परमात्मीयमपि भोक्तुं न शक्यते । तदा सर्वेऽपि सङ्घपतयः सम्भूय विचारयन्ति । यदद्य किं करिष्यति सङ्घः ? अयं तु स्वोदरपूरणेऽपि न समर्थः, तथैवास्माकमात्मनीनमपि रन्धनाय न ददाति ।
ततो वृद्धैरुक्तम्, अथ भोजनवेला जाता, मन्त्रिणागत्य सङ्घ आकारितः, सङ्घोऽपि सन्देहदोलारूढ:१६ शून्याटव्यां तदुक्तस्थानं प्रति चचाल । अग्रतो गच्छन् सङ्घो १७दुकूलमयं रमणीयं मण्डपं दृष्ट्वा हृष्टो विस्मितश्च ।