________________
श्रीकामकुम्भकथा • ८१ कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि "स्वर्गापवर्गप्रदः ॥५॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणाम्, तत्कि यन्न करोति किञ्च कुरुते स्वर्गापवर्गावपि ॥६॥ पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालङ्कृतः, स्निग्धो बन्धुजनः सखापि चुतरो नित्यं प्रसन्नः प्रभुः । निर्लोभानुचराः५ स्वबन्धुसु मनः प्रायोऽत्र भोग्यं धनम् । पुण्यानामुदयेन सन्ततमिदं कस्यापि सम्पद्यते ॥७॥ तथाहि
श्रीपुरनगरे जितारिः पृथिवीपतिः, तस्य मतिसागरनामा मन्त्री, सोऽतीवमान्यः, राजा वदति राज्यादिकं सर्वं पापेन भवति, मन्त्र्याह 'मैवं वद राजन् ! पापफलं त्वेवंकुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड्जीवलोके नरका भवन्ति ॥८॥ मन्त्री तु धर्मादेव सर्वं भव्यं भवतीति मन्यते ।
इति वदतो राज्ञः पापबुद्धिरिति नाम जातम्, मन्त्रिणस्तु पुण्यबुद्धिरिति, एवं सभान्तरे सर्वदा पुण्यपापविषये विवादो भवति । एकदा राज्ञोक्तं 'त्वं पुण्यं मन्यसे, तेन तव स्वल्पा लक्ष्मीः । मम च पापादेव राज्यादिसुखम्, यद्यहं युद्धवधादिकं करोमि । तेन मे हयगजान्तःपुरभाण्डागारादिवृद्धिः । तव च पुण्यं कुर्वतोऽपि यत्तव गृहे द्रव्यादि किमप्यस्ति तदपि समस्तं मया समर्पितमेव, न च ते पुयफलम् । एवं सत्यपि यदि त्वं धर्मं मन्यसे तदा धनं विनैकाकी देशान्तरे गत्वा धर्मादेव धनमर्जयित्वाऽऽगच्छ, तदाहं ते धर्मफलं वेद्मि' । मन्त्रिणोक्त