________________
७६ • सुलभ-चरित्राणि वेगेन धावन्तं तं गजेन्द्रं दृष्ट्वा ते सर्वेऽपि तापसाः 'हा ! हा ! अयं यतिर्हतो हत' इति पूत्कुर्वन्तस्तत्पश्चाद् धाविताः, परं स हस्ती तु तत्र गत्वा तमार्द्रकुमारमुनि ननाम, तदा आर्द्रकुमारमुनिस्तं हस्तिनं जगौ, 'भो गजेन्द्र ! तव यदि धर्मे रुचिर्भवेत्तदा जैनधर्ममङ्गीकुरु,' एवं मुनिनोक्तोऽसौ पुनस्तं मुनि प्रणनाम । मुनिनापि पुनरुक्तं 'भो गजेन्द्र ! यदि तवानशनग्रहणेच्छा, तदानशनं गृहाण' । ततस्तेन हस्तिनाऽशनं गृहीतम् । एवं हस्तिचेष्टितं दृष्ट्वा प्रबुद्धास्ते तापसा अपि जीवदयामूलं धर्ममङ्गीचक्रुः । अथ श्रेणिकनृपोऽपि गजशृङ्खलात्रोटनानशनग्रहणतापसप्रतिबोधादिं श्रुत्वा अभयकुमारसहितस्तत्रागतः, भक्त्या च तमार्द्रकुमारमुनि सपरिवार ६१पुत्रपौत्रादियुतोऽसौ ननाम । ऋषिणापि ६२कल्याणकारिधर्माशिषा स प्रीणितः । ततो मुनिनोपदिष्टं धर्मोपदेशं श्रुत्वा राजा जगाद, 'भो महर्षे ! भवदर्शनादनेन हस्तिना बहुभारप्रमाणा लोहशृङ्खाला यत् त्रोटिता, तद्विषये मे मनसि महदाश्चर्यं जातमस्ति' । मुनिरूचे 'भो नरेन्द्र ! एवंविधलोहशृङ्खलात्रोटनं तु ६३सुकरम्, परं यदा-६४मतन्तुपाशत्रोटनं मया कृतम् तदेव सर्वसंसारिजीवानां दुष्करम्' । तत् श्रुत्वातीवविस्मितेन राज्ञा पृष्टम्, 'भो मुनीन्द्र ! तमतीवाश्चर्यकरं भवदीयाऽऽमतन्तुत्रोटनसम्बन्धं मे श्रावय ? इति नृपप्रार्थितेन तेन मुनिना स्वकीयः सकलोऽपि सम्बन्धः सर्वसमक्षं प्रकटीकृत्य कथितः, तत् श्रुत्वा नृपादयः सर्वेऽपि लोकाश्चमत्कृताः । ततः आर्द्रकुमारमुनिराह, 'हे राजन् ! अयमभयकुमारो मे परमो बान्धवोऽस्ति, येनाहं तत्रानार्यदेशेऽपि मे श्रीयुगादिजिनप्रतिमाप्रेषणेन प्रतिबोधितः संसारकर्दमे६५ च पतितोऽहन्तेन समुद्धृतः । एतदाकर्ण्य सोऽभयकुमारोऽपि वैराग्यवासितहृदयः श्रेणिकं प्रति प्राह, 'भोः तात ! अधुनाहमपि दीक्षां ग्रहीतुमिच्छामि, अतो ममादेशं देहि यतो मदीयमित्रेणानेनार्द्रकुमारेण यत्कृतम् तत्कार्यं ममापि कर्तुं युक्तम्' । तन्निशम्य श्रेणिकोऽवदत्, 'भोः पुत्र ! त्वयाधुना दीक्षाग्रहणविषये किमपि न वाच्यम्, तथापि चेत्त्वं बलाद् दीक्षा ग्रहीष्यसि, तदा त्वन्मातुनन्दाया मम च हृदयस्फोटो६६ भविष्यति, तव च मातापित्रोर्हत्यापापं लगिष्यति' । ततः सोऽभयकुमारः पितृवचसा गृहवासस्थितोऽपि शुद्धं श्राद्धधर्मं पालयति स्म ।