________________
श्री आर्द्रकुमारचरित्रम् • ७७
ततः स आर्द्रकुमारमुनिः श्रेणिकाभयकारयुतः समवसरणस्थं श्रीवीरजिनेन्द्रं ६७त्रिः प्रदक्षिणीकृत्य वन्दते स्म । वीरप्रभुणापि तस्मै धर्मोपदेशो दत्तः, यथा भो आर्द्रकुमारमुने ! भवता शुद्धं चारित्रमाराधनीयम्; यतः शुद्धचारित्राराधनं विना जीवस्य संसारन्मुक्तिर्न भविष्यति, यतो भूरिमनुष्या दीक्षां गृह्णन्ति परं शुद्धमनसा स्तोका एव पालयन्ति । धर्म एव च परमबान्धवः, धर्मादेव च स्वार्गापवर्गादि भवति' । ततस्ते श्रेणिकादयः सर्वेऽपि श्रीवीरं प्रणम्य यथास्थानं गताः । ततः स आर्द्रकुमारमुनिस्तीव्रतपोऽग्निना सर्वकर्मेन्धनानि दग्ध्वा केवलज्ञानमवाप्यायुः - क्षयेण मुक्तिपुरीं जगाम ।
इति श्रीजिनप्रतिमादर्शनफलमाहात्म्योपदर्शने श्री आर्द्रकुमारमुनिचरित्रं समाप्तम् ॥
: अभ्यास :
प्रश्नः १. अभयकुमारे आर्द्रकुमारस्य स्नेहः कथञ्जात: ? २. आर्द्रकुमारः जातिस्मरणज्ञानं कथं प्राप्तवान् ? ३. आर्द्रकभूपेण तं न प्रेषयितुं किं कृतम् ?
४. आर्द्रकुमारः अनार्यदेशे कथमुत्पन्नवान् ?
५. आर्द्रकुमारो भोगवलिकर्म कथमभुनक् ?
६. कदा-कदा देववाणी भूता ?
७. आर्द्रकमुनेः अभयकुमारस्य च मिलनं कुत्र कदा अभूत् ?
१. वीक्षण नपुं. भेवुं । २. अध्वन् पुं. भार्ग ॥ ३. हार्दिक वि. - हृध्यनो (अन्तरंग) ।। ४. अम्बुज नपुं. - भव ॥ मधूप पुं. लभपरो । ( मधूनि पिबति मधूप ) ॥ ६. शिखिन् पुं. भयू२ ॥ ७. अम्भोद पुं. भे६ ॥ ८. विषय पुं. ६ ॥ आर्द्रकश्चासौ भूपश्च आर्द्रकभूप ॥ (वि. पू. कर्म. ) आर्द्रकभूपस्य प्रीतिः आर्द्रकभूपप्रीतिः (ष. तत्पु. ) आर्द्रकभूपप्रीतेः सम्पादनम् आर्द्रकभूपप्रीतिसम्पादनम् ॥ ( चतु. तत्पु. ) खराभनी प्रीतिना संपाहन भाटे ।। १०. उदन्त पुं. - सभायार ॥ ११. रहोवृत्ति स्त्री. गुप्तपणे ॥ १२. ओम् अव्यय. । । १३. भोजनञ्च पानञ्च भोजनपाने ॥ ( द्वन्द्व.) मनोहरे च ते भोजन