________________
श्रीआर्द्रकुमारचरित्रम् • ७५ मायाया हननं विशुद्धिकरणं ५८लोभद्रुमोन्मूलनम्, चेतःशोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥१॥ केनापि पुण्ययोगेन, मानुष्यकमवाप्यते । प्राप्य तहुर्लभं धर्मः, कार्यः स्वर्गापवर्गदः ॥२॥ दया जीवेषु सत्योक्ति-रस्तेयं ब्रह्मचारिता । आकिञ्चन्यं च धर्मोऽयम्, जिनैरेव निवेदितः ॥३॥
ततो भोः सामन्ताः ! यदि भवन्तो मयि भक्तिमन्तस्तदा मदीयमार्गमाश्रयध्वम् ? ततो युष्माकमत्यन्तं सुखं भविष्यति' । तत् श्रुत्वा ते प्रोचुः, 'त्वमेवास्मत्स्वामी वर्तसे, तद्भवद्भिर्यत्किञ्चिदादिश्यते, तदेव वयं करिष्यामः' । इत्युक्त्वा तैः सर्वैरपि दीक्षा गृहीता । ततस्तैः समं स आर्द्रकुमारर्षिः श्रीमहावीरं वन्दितुं विहारं कुर्वन् ५९राजगृहोपान्तस्थोद्याने ययौ, तत्र केचित्तापसा एकं महान्तं हस्तिनं हत्वा तन्मांसं भक्षयन्तस्तिष्ठन्ति स्म । तादृक्कर्म कुर्वतस्तान् वीक्ष्य स आर्द्रकुमारर्षिः प्राह, 'भो महानुभावाः ! जीवहिंसा कर्तुं न युज्यते, जीवहिंसया हि प्राणिनामधमा गतिर्भवति, यतःअस्थिनि वसति रुद्रश्च, मांसे वसेज्जनार्दन:६० । शुक्रे वसति ब्रह्मा च, तस्मान्मांसं न भक्षयेत् ॥१॥ तिलसर्षपमानं च, मासं यो भक्षयेन्नरः । तस्य स्यान्नरके वासो-ऽनन्तदुःखप्रदोऽङ्गिनः ॥२॥
तत् श्रुत्वा ते तापसाः प्रोचुः वयमेकमेव महान्तं जीवं हत्वा तन्मांसभक्षणपरा जीवामः, यूयं तु बहूनां धान्यजीवानां हिंसां कृत्वा निजाजीविकां विधास्यथ । इत्युक्त्वा ते दयाभासवन्तस्तापसा एकं महान्तं हस्तिनं तरुणा सह बबन्धुः। बहुभारलोहशृङ्खलाबद्धोऽसौ हस्ती तमार्द्रकुमारमुनिमालोक्य जीर्णरज्जुमिव तां शृङ्खलां त्रोटयित्वा वेगेन वन्दितुं चलितः एवं