________________
७४ • सुलभ-चरित्राणि
कुटुम्बं धनधान्यादि, सर्वमत्रापदां पदम् ।
देहं च मन्यते यः स्वम्, कर्म बध्नाति सोऽल्पधीः ॥४ ॥ एको धर्ममुपार्जितं च विबुधः कृत्वा स्वयं गच्छति, स्वर्गे पापमुपार्ज्य घोरनरकं दुःखाकरं प्राणभृत् । एको दुःखतति५३ ह्यसारमपि भो ! धृत्वा च मुक्त्वालयम्, तस्मात्त्वं भज भावतो हि शरणं धर्मं त्यज स्वं गृहम् ॥५॥
इत्यादिवचनैः पत्नीं पुत्रं च प्रतिबोध्य स्वयं पुनर्यतिलीङ्गमुपादाय निर्ममो निरहङ्कारः स निजगृहान्निर्गत्य वने गतः । एवं स आर्द्रकुमारमुनिरथ राजगृहं प्रति गच्छन् अन्तराले ५४ चौर्यवृत्तित्परं स्वं सामन्तशतपञ्चकमुपलक्ष्य यावत्तत्र स्थितस्तावत् नूनमयमस्माकं स्वाम्येवेत्युपलक्ष्य तैर्भूयस्या भक्त्या वन्दितः । ततः आर्द्रकुमारमुनिस्तान् जगाद, 'भो सामन्ताः ! युष्माभिः किमीदृशीयं पापकारिणी च ५५ दुर्गतिदायिनी वृत्तिः समारब्धा ?' यतःचौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके त, फलं नरकवेदना ॥ १ ॥
तु,
तदा ते सेवका जगुः, 'हे स्वामिन् ! यदा त्वमस्मान् वञ्चयित्वा गतस्तदास्माभिः सर्वत्र विलोकितोऽपि न दृष्टः । तदास्माभिश्चिन्तितमार्द्रकुमारस्तु गतः, अथ वयं भूपस्य कथं स्वमुखानि दर्शयामः ? इति विचिन्त्य वयं सर्वेऽपि यानारूढा अत्र समागताः, अत्रापि बहु विलोकमाना अपि वयं त्वामनुपलभ्य चौर्यवृत्तिमाचरामः' । तदा मुनिराह 'भो भद्राः ! कष्टे समागतेऽपि सद्भिश्चौर्यवृत्तिर्नैव विधेया, इदं दुर्लभं मनुष्यजन्म प्राप्य सज्जनैस्तद्विधेयम्, येनागामिनि जन्मनि शुभगतिर्भवेत्, यतः -
जन्तूनामवनं, जिनेशमहनं, ५६ भक्त्यागमाकर्णनम् ५७, साधूनां नमनं, मदापनयनं, सम्यग्गुरोर्माननम् ।