________________
श्रीआर्द्रकुमारचरित्रम् • ७३ भूतेनार्द्रकुमारेवोति निजहृदये निश्चितम्, अनेन बालेन यावन्तस्तन्तवो मदीयपादयोर्वेष्टिताः सन्ति, तावन्ति वर्षाणि मया गृहवासे एव स्थेयम् । ततः स आर्द्रकुमारस्तान् तन्तून् गणयामास, सर्वे द्वादश तन्तवो जाताः, ततस्तेन श्रीमती प्रियां प्रयुक्तम्, 'हे प्रिये ! त्वं चिन्तां मा कुरु अद्याप्यहं द्वादश वत्सराणि गृहे एव स्थास्यामि,' तदनन्तरं नूनं दीक्षां लास्ये । एवं सुतप्रतिबन्धेन५१ स द्वादश वर्षाणि गृहे स्थित्वान्येधुरिति दध्यौ
भवकूपाद्विनिर्गन्तुम्, व्रतमालम्ब्य रज्जुवत् । मया प्राप्तं च मुक्तं च, मग्नस्तत्राप्यहं पुनः ॥१॥ मनसैव व्रतं भग्नम्, प्राग्जन्मनि ततोऽप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि, का गतिः स्यादतः परम् ॥२॥ भवत्विदानीमप्यात्त५२परिव्रज्यस्तपोऽग्निना । साक्षात्प्रक्षालयिष्ये स्वम्, मलिनीभूतहेमवत् ॥१॥
इति ध्यात्वा स आर्द्रकुमारो निजां पत्नी श्रीमती प्रति प्राह, 'हे प्रिये ! अथाहं दीक्षां लास्यामि,' तदा श्रीमती जगौ, 'हे स्वामिन् ! त्वा विनाहं कथं जीविष्यामि ? पुत्रस्यास्य च का गतिर्भविष्यति ?' तदाकुमारो जगौ 'हे प्रिये ! कथं त्वयैवमुच्यते ? अस्मिन्नसारे संसारे कोऽपि कस्यापि नास्ति, निजनिजकर्मप्रेरिता जीवाः संयुज्यन्ते, वियुज्यन्ते च । यतः
जातश्चैको वृतश्चैक, एको धर्म करोति च । पापं स्वर्गसुखे जीवः, श्वभ्रे गच्छति कः समं ॥१॥ मूढाःकुर्वन्ति ये मे मे, वपुः पुत्रगृहादिकम् । तेऽपि त्यक्त्वा च रोगार्ताः मज्जन्ति भवसागरे ॥२॥ लाति पुनः पुनर्जीवो, नवं देहगृहादिकम् । कथं मे मे तनुर्गेहम्, कलत्रं कुरुते जङः ॥३॥