________________
७२ • सुलभ-चरित्राणि श्वभ्रपदं४८ भविष्यति,' इत्युक्त्वा सा श्रीमती तस्य मुनेर्हस्तं निजहस्तेन दृढं गृहीत्वैवास्थात् । इतस्तमुदन्तं विज्ञाय राजादयो बहवो लोकास्तत्र मिलिताः । राजा तमार्द्रकुमारमुनिं प्रति जगौ, 'भो मुने ! अथ यदि त्वमिमां कन्यामङ्गीकरिष्यसि, तदैव सा जीविष्यति, अन्यथेयं नूनं तवात्महत्यां दास्यति' । तत् श्रुत्वा स आर्द्रकुमारमुनिरपि तां शासनदेवतावाणी सस्मार, दध्यौ चाधुना समापतितं देवतोक्तं भोगकर्मफलमन्यथा कर्तुं नैव शक्यते, दैवीवाचो नैवान्यथा भवन्ति । यतः
आरोहतु गिरिशिरं, समुद्रमुल्लङ्घ्य यातु पातालम् । तत्रापि ध्रुवमन्वेति, कृतं शुभाशुभं कर्म ॥१॥
इति विचार्य स आर्द्रकुमारमुनिनुपादीनामुपरोधेन तां कन्यां परिणीतवान् । ततस्तया सह भोगान् भुञ्जानस्य तस्यार्द्रकुमारस्य सुतः समुत्पन्नः । तस्य जन्मोत्सवोऽपि तेन विहितः । क्रमेण स सुतो वृद्धि प्राप । तत एकदा पुनर्वैराग्यवासितहृदयः स आर्द्रकुमारो निजां पत्नी प्राह, 'हे प्रिये ! अथायं पुत्रस्ते सहायभूतो जातोऽस्ति, अहं चाथ पुनर्दीक्षां ग्रहीष्यामि' । एवंविधं निजस्वामिवचनं श्रुत्वा विषण्णा सा श्रीमती पुत्रं प्रति तज्जनकाभिप्रायं ज्ञापयितुं तूलपूणिकां गृहीत्वा तर्कुणा४९ कर्तयितुमुपविष्टा । इतो लेखशालातः समागतः स बालो मातरं कर्तयन्तीं वीक्ष्य जगौ, 'भो मातः ! किमिदमनीदृशं कर्मकरजनोचितं५० कर्म त्वयाऽऽरब्धम् ?' तत् श्रुत्वा श्रीमती जगौ, 'तव पिता दीक्षां गृह्णाति, ततस्तेन मुक्ताया ममाथाजीविकार्थं तर्कुरेवायं शरणम् । बालेनोक्तम्, मातस्त्वया दुःखं न कार्यम्, अहं तथा करिष्ये यथा मम पिता दीक्षार्थं गन्तुमेवाशक्तो भविष्यति । इत्युक्त्वा तत्र सुप्तस्य निजजनकस्य पादौ तर्कुसूत्रेण वेष्टयित्वा स जगौ, 'भो जनक ! ईदृशैः सूत्रतन्तुभिर्बन्धस्त्वं दीक्षार्थमितः कथं गमिष्यसि ?' ततोऽसौ मातुः सन्मुखं विलोक्य जगौ, 'भो मातः ! मया मे पित तथा बद्धोऽस्ति, यथा स गन्तुं न शक्नोति । एवंविधं बालचेष्टितं विलोक्यार्द्रकुमारो दध्यौ, नूनं ममास्य पुत्रस्य मोहोऽद्यापि दीक्षार्थं निवारयति, यतो मयि दीक्षिते अस्य पुत्रस्य पत्न्याश्च का गतिर्भविष्यति ? इति ध्यात्वा मोहाभि