________________
श्रीआर्द्रकुमारचरित्रम् • ७१ वराः समायान्ति, तदा श्रीमती जल्पति स्म, 'यो मुनिर्मया पूर्वं वृतः, स एव मम स्वामी भवतु, अन्याग्निरेव मम शरणं भविष्यति, कुमारिका कन्या त्वेकवारमेव परिणयति, यतः
सकृज्जल्पन्ति४४ राजानः, सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥१॥
तदा श्रेष्ठी निजपुत्रीं प्राह, 'भो पुत्रि ! परं स महर्षिः कथं प्राप्यः, यत एवंविधा महर्षयः क्षणमप्येकत्र नैव तिष्ठन्ति, ते तु अलय इव स्थानात्स्थानं भ्रमन्ति, ततः सोऽत्र कथमायास्यति ? आगतो वा कथमुपलक्षिष्यते कथं च तस्य नाम ज्ञायते ? किमप्यभिज्ञानं नास्ति, एवंविधा बहवो भिक्षवोऽत्रायान्ति यान्ति च, अतः स सम्यग् नैव ज्ञास्यते, तेन त्वं कदाग्रहं मा कुरु ।' यतः
वज्रलेपस्य मूर्खस्य, नारीणां मर्कटस्य च । एकाग्रहस्तु मीनानाम्, नीलिमद्यपयोस्तथा ॥१॥
तत् श्रुत्वा श्रीमती प्राह, 'भोः पितः ! यदाहं तस्य मुनेः पादयोर्लग्ना, तदा मया विद्युदुद्योतेन गजाकृतिरूद्ध्वरेखा तस्य पादे दृष्टास्ति, तादृकचिह्नयुतं४५ तं मुनि नूनमहमुपायेन शोधयिष्यामि' । तत् श्रुत्वा पित्रा प्रोक्तम्, 'भोः पुत्रि ! यः कोऽप्युपायस्ते रोचते तं सुखेन कुरु' । एवं जनकेन प्रोक्तया तया श्रीमत्येत्यभिग्रहः कृतः, यथा मया नित्यं चतसृभ्यो दिग्भ्योऽत्र समागतानां मुनीनां शुद्धान्न-पानादिभिः प्रतिलाभ्यैव तच्चरणवन्दनपूर्वकं भोजनं कार्यम् । इत्यभिग्रहपरैषा नित्यं मुनिभ्यः शुद्धान्नपानादि दत्त्वा तेषां चरणवन्दनं करोति । एवं कुर्वन्त्यास्तस्या द्वादश वत्सरा४६ निर्गताः । अथैकदा देवीविहितदिग्मोह:४७ स एवार्द्रकुमारमुनिर्विहारं कुर्वन्स्तत्रैव नगरे समायातः । तं मुनि प्रतिलाभयन्ती श्रीमती तत्पादयोर्वन्दमाना सम्यगुपलक्ष्य जगौ, 'भो मुने ! तदा देवकुले क्रीडन्त्या मया त्वं वृतोऽसि, अतस्त्वमेव मम वरोऽसि । तदा मां विप्रतार्य त्वं पलायितः, अधुना मदीयहस्तागतस्त्वं कथं यास्यसि ? अथ यदि त्वं मामवगणयिष्यसि, तदा तुभ्यमात्महत्यां दास्यामि, एवं स्त्रीहत्यापाताकं च ते