________________
७० • सुलभ- चरित्राणि
कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ३६ । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥२॥
एवं शासनदेवतया निवारितोऽपि स आर्द्रकुमारः सत्त्वतः प्रबलीभूय ३७ यतिरभूत् । एवं स निरतिचारं चारित्रं पालयन्नेकदा विहरन् वसन्तपुरे समायातः तत्र च बाह्यदेवकुले कायोत्सर्गेण तस्थौ ।
अथ तत्र वसन्तपुरे नगरे धनदत्ताख्य एकः श्रेष्ठी वसति, तस्य च श्रीमतीनाम्नी पुत्री बभूव । क्रमाद्वर्धमाना सा बाल्यावस्थामुल्लङ्घ्य धर्मकर्मसर्वकलाकुशलाऽजनि । अन्यदा समानवयस्काभिर्भूरिभिरिभ्यपुत्रीभिः ३८ परिवृता सा वरवरणक्रीडां३९ कर्तुं आर्द्रकुमारर्षिसमलङ्कृते४° तत्रैव देवकुले समायाता । तदा सर्वाः कन्या बालक्रीडया जगुः, एते सर्वे स्तम्भा वरतुल्या वर्त्तन्ते, वयं सर्वा अपि कन्याः स्मः, यस्यै यो यो वर एषु रोचते, स स तया तया स्वहस्ताऽऽलिङ्गनेनाङ्गीकर्तव्यः । ततस्ताः सर्वाः स्वं स्वमेकैकं स्तम्भं निजवरबुद्ध्याऽङ्गीचक्रुः । श्रीमती तु स्तम्भमलभमाना तं कायोत्सर्गस्थमार्द्रकुमारमुनिमेवाङ्गीकृत्येत्युवाच, 'मया त्वयं भट्टारक४१ एव वृत्तः ' । तदाऽकस्मादाकाशे “साधु वृतं” इति जल्पन्ती शासनदेवता तत्र गर्जितादिपुरस्सरं रत्नवृष्टि
चकार । यतः
राज्यं सुसम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यम्, धर्मस्यैतत्फलं विदुः ॥ १ ॥
I
ततस्तस्यार्द्रकुमारमुनेः पादयोर्लगित्वा सा श्रीमती प्राह, 'भो मुने ! अस्मिन् भवे त्वमेव मम पतिरसि । अहो ! अनुकूलमुपसर्गोऽयं जातः, मदीयव्रतभङ्गश्च भविष्यति इति ध्यायन् सोऽनगारशिरोमणिस्ततोऽन्यत्र ४२ विजहार । तदा तस्योपरि देवतया रत्नवृष्टिर्वृता, तां देवताकृतरत्नवृष्टिमादित्सू ४३ राजा तयैव शासनदेच्या निषिद्धः तत एतद्धनमस्यां कन्यायां परिणीतायां तस्या एव भविष्यतीति प्रोच्य राज्ञा तत्सर्वं श्रीमतीपितुरेव समर्पितम् । ततो नृपादयः । सर्वेऽपि जना निजं निजं स्थानं ययुः अथ विवाहार्थं तां कन्यां मार्गयितुं बहवो