________________
श्रीआर्द्रकुमारचरित्रम् • ६९ __ एवं यानपात्रेण प्रयाणं कुर्वन् स कियद्दिनैः समुद्रापरतीरस्थे लक्ष्मीपुरनगरे समुत्तीर्णः इतस्तत्रैव श्रीपुण्यनन्दनाभिधा जैनाचार्याः समाययुः । आर्द्रकुमारोऽपि स्वं धन्यं मन्यमानो धर्मश्रवणार्थं तेषां समीपे समागात् । गुरुभिरपि तं योग्यं विज्ञायेति तस्मै धर्मोपदेशो दत्तः, यथा - नृपत्वचक्रित्वहरित्ववैभवम्, धर्मः प्रदत्तेऽनुभवं नवं नवम् । विधेहितद्धर्मविधानधन्यताम्,पिधेहि नित्यंविषयानुषङ्गिताम् ॥१॥ लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो, लोभाच्चैव हठाभिमानविनयशृङ्गारकीर्त्यादितः । दुःखात् कौतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥२॥ इयं मायारात्रिर्बहलतिमिरा३३ मोहललितैः, कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधनान्ययं कालश्चौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥३॥
इत्यादिधर्मोपदेशमाकर्ण्य स आर्द्रकुमारो वैराग्यवासितहृदयो३४ बभूव । ततोऽसौ सहानीतं सर्वमपि द्रव्यं सप्तक्षेत्र्यामुप्त्वा यतिलिङ्गमुपादातुं सर्वविरत्यर्थं यावत्सामायिकमुच्चरितुमुत्सुकोऽभूत्, तावदाकाशस्थितया शासनदेवतया प्रोक्तम्, 'भो महाभाग ! यद्यपि त्वं महासत्त्वशाल्यसि,३५ तथापि साम्प्रतं तव दीक्षाग्रहणं न युक्तम्, यदद्यापि ते बहुलं भोगकर्मफलं विद्यते, तद्भोगकर्मफलं भुक्त्वा कियत्कालानन्तरं त्वं चारित्रमाददीथाः, यतः कृतं कर्म भोगफलं विना न त्रुटित, यतःकत्थइ जीवो बलीओ, कत्थइ कम्माइं हुंति बलिआई। जीवस्य य कम्मस्स य, पुव्वनिबद्धाइं वइराइं ॥१॥